SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ अबन्धः ] प्रबन्धकोशेत्यपराये [ ७ ] ॥ अथ श्रीमल्लवादिप्रबन्धः ॥ R श्रीइन्द्रभूतिमानम्य, प्रभावकशिरोमणेः । श्रीमल्लवादिसुरीन्दो - धरितं कीर्त्यते मया ॥ १ ॥' 'खेटा 'भिधं महास्थान - मस्ति ' गुर्जर 'मण्डले । देवादित्यापस्तत्र विप्रोऽभूद् वेदपारगः ॥ २ ॥ सुभगाख्या सुता तस्य, विधवा बालकालतः । कस्मादपि गुरोर्मन्त्र, सौरं सा प्राप भक्तिभाक् ॥ ३ ॥ आकृष्टस्तेन मन्त्रेण, मास्करस्तामुपागमत् । तद्भोगलाभादापन - सत्वा सा न चिरादभूत् ॥ ४ ॥ वैकियेभ्यः सुराङ्गेभ्यो, गर्भो पद्यपि नोद्भवेत् । "तदानीं त्वौदारिकाङ्ग - धातुयोगात् तु सम्भवी ॥ ५ ॥ आपाण्डुगण्डफलकां, ग्लानाहीं वीक्ष्य तां पिता । बभाषे किमिदं वत्से !, निन्यमाचरितं त्वया ? ॥ ६ ॥ सा प्राह स्म पितर्नेयं, प्रमादविकृतिर्मम | मन्त्राकृष्टागतोष्णांशु न्यासः पुनरयं बलात् ॥ ७ ॥ इत्युक्तोऽपि विषण्णात्मा, देवादित्यः कुकर्मणा । तां पुत्र प्रेषयामास सभृत्यां 'वलभी' पुरीम् ॥ ८ ॥ कालेन तत्र सासूत, पुत्रं पुत्र च सुद्युतम् । तत्रैवोवास सुचिरं, जनकार्पितजीविका ॥ ९ ॥ क्रमेण ववृधाते तौ, पुत्रौ बालार्कतेजसौ । यावदष्टौ व्यतिक्रान्ता, वत्सराः क्षणवत् तयोः ॥ १० ॥ तावदध्यापकस्यान्ते, पठितुं तौ निवेशितौ । कलहेऽर्भ निष्पितृक - मूचिरे लेखशालिकाः ॥ ११ ॥ - युग्मम् १० १५ २० १ अतः परं ६९ तमं पद्यं यावत् छन्दोऽनुष्टुप् ' । २ ख घ- 'स्थानं, अस्ति' । ३ सूर्यसम्बन्धि । --' तदानीतौ (!)दा० ' । ख-घ -
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy