SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धोत्पराये ર तत् कुरु येन इतोऽधिकं तुङ्गं रम्यं चैश्यं निष्पद्यते । बली स्वमेवेति । तद्वचनं श्रुत्वा वादी 'अवन्ती' मागत्य चतुःश्लोकीं हस्ते कृत्वा विक्रमादित्यद्वारमेत्य द्वास्येनोपराजं श्लोकमचीकथत् । स तेन कथितः; यथा - दिक्षुर्भिक्षुरायातो, द्वारि तिष्ठति वारितः । हस्तन्यस्तचतुः श्लोक, उतागच्छतु गच्छतु ? ॥ १ ॥ तं लोकं वा विक्रमादित्येन प्रतिश्लोकः कथापितः, यथा - दत्तानि दश लक्षाणि शासनानि चतुर्दश । हस्तन्यस्तचतुः श्लोक, उता गच्छतु गच्छतु ॥ २ ॥ - वादिना तं श्लोकं श्रुत्वा द्वास्थद्वारेण भाणितं राज्ञे दर्शनमेव १० भिक्षुरीहते, नार्थम् । ततो राज्ञा स्वदृष्टौ आहूतः । उपलक्षितो भाषितश्च भगवन् ! किमिति चिराद् दृश्यध्वे । आचार्यैरुक्तम्धर्मकार्यवशाश्चिरादायातः । श्लोकचतुष्टयं शृणु । राज्ञि शृण्वति पठितं तद्, यथा अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुतः ? । मार्गणौधः समभ्येति, गुणो याति दिगन्तरम् ॥ १ ॥ "सरस्वती स्थिता वक्त्रे, लक्ष्मीः करसरोरुहे । कीर्तिः किं कुपिता राजन् !, येन देशान्तरं गता ॥२॥ कीर्तिस्ने जातजाख्येव, चतुरम्भोधिमज्ञ्जनात् । आतपाय धरानाथ !, गता मार्तण्डमण्डलम् ॥ ३ ॥ सर्वदा सर्वदोऽसीति, मिध्या संस्तूयसे जनैः । नारयो लेभिरे पृष्ठं, न वक्षः परयोषितः ॥ ४ ॥ श्रुत्वा तुष्टो विक्रमश्वतुरो गजान् यथासङ्ख्यं वसन- सुगन्धद्रव्य-हेमनाक - हारादिपूर्णान् आनाय्य सूरिमभाणीस्-इमे गृह्यन्ताम् । १५ २० १ ग-'द्वास्थनोपचारं' । २ क ख ग 'यातस्तिष्ठति द्वारि वारितः । ३ अनुष्टुप् । ४ ख - घ - राज्ञो दर्शन० | ५०६ अनुषुप् । ७-८ अनुष्टुप् । चतुर्विंशति ० ६
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy