SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्धे [ ६ श्रीवृद्धवादि-सिद्धसैनइति स्तुत्वा स सम्राट् स्वस्थानमयासीत् । वादीन्द्रोऽपि प्रभावनातुष्टेन सङ्घन मध्ये कृतः । ___ अन्येयुः सिद्धसेनो बिहर नाङ्कारा ख्यं 'मालवे'षु नगरं ययौ। तत्र भक्तैः श्रावकैर्विज्ञप्तं सूरये, यथा--भगवन् ! अस्यैव नगरस्यासन्नो ग्राम एक आसीत् । तत्र सुन्दरो नाम राजपुत्रो ग्रामणीः । तस्य द्वे पल्यौ । एका प्रथमां पुत्री प्रासूत, अखिद्यत च । तदैव सपल्यप्यासन्नप्रसवा वर्तते । मा स्मेयं पुत्रं प्रसूय भर्तुः सविशेष वल्लभा भूदिति स्त्रीत्वोचितया तुच्छया बुद्धया सूतिकामेकामवोचत यदा इयं मे सपत्नी प्रसवकाले त्वां दैववशादाह्वयति तदा त्वया १० परस्थानात् प्रथमं सङ्गृहीतं मृतं किञ्चिदपत्र तत्र सञ्चार्यम् । तज्जातकं चेत् पुत्रो भवति तदा स्वयं गृहीत्वा ग्रामाद् दूरे व्युत्स्रष्टव्यम् । इदं हेम गृहाण । इति सूत्रणां चक्रुषी । विधिवशात् तत्र तत् तया तथैव कृतम् । राजपुत्रो जातमात्रो ग्रामाद् दूरे क्षिप्तो ही। स राजपुत्रोऽपि पुण्याधिक इति तत्कुलदेवतया धेनुरूपेण दुग्धं १५ दत्त्वा पालयन्त्याऽष्टवर्षदेशीयः कृतः । अथात्रैव 'ॐकार'नगरे शिवभवनाधिकारिणा भरटकेन दृष्टः, आलापितः, स्वां दीक्षा ग्राहितः। अन्यदा 'क(?का)न्यकुब्ज'देशाधिपतिर्नरेन्द्रो जात्यन्धो दिग्विजयकार्येण प्रत्यासन्नः समावासितः । रात्री लघुभरटकस्य शिवादेशः सञ्जातः-त्वया 'क(?का)न्यकुब्जे'शाय शेषा देया । तयाऽसौ सज्जा२० क्षो भावी । तद् वाक्यं लघुर्वृहद्गुरवे समाख्याय तदाज्ञया शेषामादाय स्कन्धावारमध्यमेत्य राजामात्यानुवाच- भो भो स्वनाथमस्मत्सम्मुखमानयध्वं यथा सद्यः कमलदलललितं स्वविषयग्रहणक्षमाक्षं कुर्महे । ततोऽमात्यनुलो राजा तत्रायातः। ऋषिदत्तां शेषामादाया! निवेश्य सज्जाक्षो जातः । प्रीतो भक्त्या ग्रामशतानि शासनेऽदात् । २५ अत्रैव च 'ॐकारे' इममुत्तुङ्गं प्रासादमचीकरत् । वयमिह पुरे वसामः। जैनः प्रासादः कारयितुं न लभ्यते । मिथ्यादृशो बलिनः । तस्मात् ग-दानपुत्रामणी'।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy