SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रवन्धकोशेत्यपराह्वये मापनया सामया क्षुधितया दर्भसूचविधक्षरत्तद्बुधिर धारागन्धलुब्धागतया भक्षितः सद्भावनाजर्जरितपापकर्मा 'नलिनीगुरुम' माप । प्रातस्तन्माता सस्नुषा गुरुमुखादवगतपुत्रवृत्तान्ता तच्छ्रमशानमागत्य विललाप विविधं विविधम् । पुनर्गृहमागता । एकां सगर्भा वधूं गृहे मुक्त्वा एकत्रिंशता वधूभिः सह संयममादाय दिवं लेभे । सगर्भस्थित- ५ वधूकाजातपुत्रेण स्फीतयौवनेनायं प्रासादः कारितः । मम पितुमहाकालोऽत्राभूदिति 'महाकाल' नाम दत्तम् | श्रीपार्श्वविम्बं मध्ये स्थापितम् । कत्यप्यहानि 'लोके पूर्णितम् । अवसरे द्विजैस्तदन्तरितं कृत्वा मृडलिङ्गमिदं स्थापितम् । अधुना मत्कृतस्तुतितुष्टः श्री पार्श्वनाथः प्रादुरासीत् । मत्प्रेरितशासनदेवताबलात् तु मृड- १० लिङ्गं विदधे । सत्यासत्ययोरन्तरं पश्य । तच्छ्रवणान्नृपः शासने ग्रामशतान्यदन्त देवाय । उपगुरु ससम्यक्त्वां द्वादश (?) व्रतीमुपादत्त । अश्लाघत वादीन्द्रम् - अहयो बहवः सन्ति, मेकभक्षणदक्षिणाः । एक एव स शेषो हि, धरित्रीधरणक्षमः ॥ १ ॥ तथात्वम् । अहो कवित्वशक्तिस्ते ! । पदं सपदि कस्य न स्फुरति शर्करापाकिमं ? रसालरससेकिमं भणितिवैभवं कस्य न ? | तदेतदुभयं किमप्यमृतनिर्झरो द्वारिमै स्तरङ्गयति यो रसैः स पुनरेक एव कश्चित् ॥ १ ॥ २० न नाम्ना 'नो वृत्त्या परिचय शाच्छन्दसि न वा न शब्दव्युत्पत्त्या निभृतमुपदेशान्न च गुरोः । अपि त्वेताः स्वैरं जगति सुकवीनां मधुमुचो ११ विपच्यन्ते वाचः सुकृतपरिणामेन महता ॥ २ ॥ १५ १ वत्ससहितया । २ क- 'स्फीतिवधूकायौ' । ग 'श्रीपार्श्वनाथनि । क क- 'लोकेन' । ५ शिव० ६ ग 'सत्पराः। ७ग- श्रीशेषो हि धरणीधरन.' ८ अनुप् । ९ पृथ्वी । १० ख-या वृत्त्या | ११ शिखरिणी ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy