SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रवन्धे । ६ श्रीवृद्धवादि-सिद्धसेन धर्मलाभ इति प्रोक्ते, दूरादुश्छ्तिपाणये ।। सूरये सिद्धसेनाय, ददौ कोटिं धराधिपः ॥१॥ श्रीविक्रमाने अवसरे तेनैव भगवता भाणितम्'पुन्ने वाससहस्से सयंमि वरिसाण नवनवइकलिए । होही कुमरनरिंदो तुह विकमराय ! सारिच्छो ॥१॥ अन्यदा सिद्धसेन चित्रकूटमटति स्म । तत्र चिरन्तनचैत्ये स्तम्भमेक महान्तं दृष्ट्वा कञ्चिदप्राक्षात्कोऽयं स्तम्भो महान् ? किंमयः । तेनोक्तम्---पूर्वाचार्यैरिह रहस्यविद्यापुस्तकानि न्य स्तानि सन्ति । स्तम्भस्तु तत्तदोषधद्रव्यमयः । जलादिभिरभेद्यो १० वज्रवत् । तद्वचनं श्रुत्वा सिद्धसेनस्तस्य स्तम्भस्य गन्धं गृहीत्वा प्रत्यौषधरसैस्तमाच्छोटयामास । तैः स प्रातरम्बुजवद् विचकास । मध्यात् पतिताः पुस्तकाः । तत्रैकं पुस्तकं छोटयित्वा वाचयन्नाद्यपत्र एव द्वे विद्ये लभते स्म । एका सर्षपविद्या, अपरा हेमविद्या । तत्र सर्षपविद्या सा यथोत्पन्ने कार्य मान्त्रिको यावन्तः सर्षपान् १५ जलाशये क्षिपति तावन्तोऽश्वनारा "द्विचत्वारिंशदुपकरणसहिता निस्सरन्ति । ततः परबलं भज्यते । सुभटाः कार्यसिद्धरनन्तरमदृशीभवन्ति । हेमविद्या पुनरक्लेशेन शुद्धहेमकोटीं सद्यो निष्पादयति पेन तेन धातुना। तद् विद्याद्वयं सम्यग् जग्राह । यावदने वाचयति तावत् स्तम्भो मिषितः पुस्तकगर्भः । खे च वागुत्पन्ना-अयोग्यो२० ऽसि ईदृशानां रहस्यानां, मा चपलं कृथाः; सद्यो मा म्रियस्व, इति । ततो भीतः स्थितः । यद् विद्याद्वयं लब्धं तल्लब्धम् , ना १ अनुष्टुए। २ छापा-- पूर्णे वर्षसहसे शके वर्षाणां नवनवतिकलिते । भविष्यति कुमारनरेन्द्रस्तव विक्रमराज ! सदृशः ॥ ३ आर्या । ४ छोडीने' इति भाषायाम् । ५ एतनामानि न ज्ञायन्ते । 'भक्ष्यते'७ क--'अरश्या हेमविधा' । ८ घ--कोटी। घ..
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy