SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धक शेत्यपराह्वये गोपा हृष्टाः प्रोचुः -- वृद्धवादी सर्वज्ञः, अहो कीदृक् श्रुतिसुखमुपयोगि पठति । सिद्धसेनस्तु असारपाठक इत्यनिन्दन् । ततः सिद्धसेनः प्राह भगवन् ! मां प्रत्राजय । तब शिष्योऽहं, वादे सभ्यसम्मतं जितत्वात् । अथ वृद्धवाद्याह-- 'भृगु' पुरे राजसभायामावयोर्वादोऽस्तु । गोपसभायां को बादः । सिद्धसेने ५ नोक्तम् -- अहमकालज्ञः, त्वं तु कालज्ञः, यः कालज्ञः स सर्वज्ञः । त्वयैव जितम् । इत्येवं वदन्तं तं तत्रैव दीक्षयामास । ? तत्र प्रभृति 'भृगु' पुरनरेन्द्रेण तं वृत्तातं ज्ञात्वा 'तालारसो' नाम ग्रामः स्थापितः प्रौढः । नाभेयचैत्यं कारितम् । नाभेयविम्बं वृद्धवादिना प्रतिष्ठितम् । सङ्घो जगर्ज । सिद्धसेनस्य दीक्षाकाले १० कुमुदचन्द्र इति नामासीत् । सूरिपदे पुनः सिद्धसेन दिवाकर इति नाम पप्रथे । तदा 'दिवाकर' इति सूरेः सञ्ज्ञा, स्वामिशब्दवद् वाचकशब्दवच्च । वृद्धवादी अन्यत्र विहरति । सिद्धसेनस्त्व' ऽवन्ती' ययौ । सङ्घः सम्मुखमागत्य तं सूरिं 'सर्वज्ञपुत्रक' इति बिरुदे पठधमाने 'वन्ती' चतुष्पथं नयति । तदा राजा विक्रमादित्यो हस्ति- १५ स्कन्धारूढः सम्मुखमागच्छन्नस्ति । राज्ञा श्रुतम् - सर्वज्ञपुत्रक इति । तत्परीक्षार्थं हस्तिस्थ एव मनसा सूरेर्नमस्कारं चकार, न वाक्शिरोभ्याम् | सूरिश्वासन्नायातो धर्मलाभं वभाण । राजेन्द्रेण भणितम् - - अवन्दमानेभ्यो ऽस्मभ्यं को धर्मलाभः ? । किमयं समर्धी लभ्यमानोऽस्ति ? | सूरिणा श्रुत्वाऽभाणि – चिन्तामणिकोटितोऽप्यधिको २० ऽयं वन्दमानाय देयः, न च त्वया न वन्दिता वयम्, मनसः सर्वप्रधानत्वात् अस्मत्सार्वज्ञपरीक्षायै हि मनसाऽस्मानवन्दथाः । ततस्तुष्ट राजेश्वरो हस्तिस्कन्धादवरुह्य सङ्घसमक्षं ववन्दे कनककोटिं श्वानाययत् । आचार्यैः सा न जगृहे, निर्लोभत्वात् । राज्ञाऽपि न जगृहे, कल्पितत्वात् । तत आचार्यानुज्ञया सङ्घपुरुषैर्जीर्णोद्धारे २५ व्यथिता | राजवहिकायां स्वेषं लिखितम्--- १ ख- " 'मुपयोगं' । २ ग -' चतुर्विश्वति०५ ३३ --' इस्माकं ' । ३ ख - घ - 'सूरसुत्राम्ला (१) माणि' ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy