SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रवन्धे [५ श्रीपादालप्ताचार्यपार्श्व खेन गृहीत्वा गतो नागार्जुनः। 'सेडी'सम्झनदीतटे श्रीपार्श्वदृष्टौ रसः स्तम्भितः। 'स्तम्भनकं' नाम तत् तीर्थ पप्रथे, 'स्तम्भनपुरं' नाम पुरं च । __ अथ श्रीपादलिप्ताचार्याः 'प्रतिष्ठान'पुरं दक्षिणाशामुखभूषणं 'गोदावरी नदीतरङ्गरङ्गज्जलकणहृतपान्थश्रमभरं जग्मुः । तत्र सातवाहनो राजा विदुषां योधानां दानशौण्डामा भोगिनां च प्रथमः। तस्य सभायां वार्ताऽभूत् , यथा-- पादलिप्ताचार्याः सर्वविद्याबनितावदनरत्नदर्पणाः समागच्छन्तः सन्ति प्रातः । तप्तः सर्वैः पण्डितैः सम्भूय स्त्यानघृतभृतं कच्चोलकमर्पयित्वा निजः पुरुष एक १० आचार्याणां सम्मुखः प्रस्थापितः । आचार्येतिमध्ये सूच्येका क्षिप्ता। तथैव च प्रतिप्रेषितं तत् । राज्ञा स वृत्तान्तो ज्ञातः । पग्रिताः पृष्टाः- धृतपूर्णकच्चालकप्रेषणेन वः को भावः ? । तैरुक्तम्-- एवमेतन्नगरं 'विदुषां पूर्णमास्ते यथा घृतस्य वर्तुलकम् , तस्माद् वि मृश्य प्रवेष्टव्यम्, इति भावो नः । राज्ञा निगदितम्-- तर्हि १५ आचार्यचेष्टाऽपि भवद्भिीयताम् , यथा-निरन्तरेऽपि घृते निज तीक्ष्णतया सूची प्रविष्टा तथाऽहमपि विद्वानिबिडे नगरे प्रवेक्ष्यामि इति । दध्वनुः पण्डिताः । सर्वे राजेन्द्रोऽपि सम्मुखं गताः सुरसरिल्लहरिहारिण्या वाण्या तुतुषुः ! नगरमानीतो गुरुनिर्वाणकलिका प्रश्नप्रकाशादिशास्त्राणि सन्ददर्भ । एकां च 'तरङ्गलोला नाम २० चम्पूं राज्ञोऽने नवां निर्माय सदसि व्याचख्ये प्रभुः । तुष्टो राजा । भवत्ययं कपीन्द्रः। शाणोत्तीर्णमिवोज्ज्वलद्युति पदं बन्धोऽर्द्धनारीश्वरः श्लाघालङ्घनजाछिको दिवि लतोद्भिन्नेव चार्थाद् गतिः । १ ग--'प्रेषितः' । २ क-'तत:' । ३ क-ख-'घृतप्तम्पूर्ण.' । ४ ग--'विदुषैः । ५ ग-'सर्वे पण्डिता राजेन्द्रोऽपि' । ६ क-'तुष्टुवुः । ७ नायं प्रन्थो दृष्टिपथमा यातः। ८ एषा सरसा कथा न काप्युपलभ्यते । ९ क-न्याचचक्षे । १० क-ग-'चार्थोगतिः ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy