SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे [४ श्रीआर्य सपट ।चार्य [४] ॥ अथार्यखपटाचार्यप्रबन्धः ॥ क्वापि गच्छेऽनेकातिशयलब्धिसम्पन्नाः श्रीआर्यखपटा नाम आचार्यसम्राजः । तेषां शिष्यो भागिनेयो भुवनो नाम । ते सूरयो 'भृगुकच्छं' विजहुः । तत्र बलमित्रो नाम बौद्धभक्तो राजा, बौद्धाश्च महाप्रामाणिकास्तादृग्यजमानगर्विताश्च दुर्दान्ताः । 'एकं वानरी, अपरं वृश्चिकेन जग्धा' इति न्यायात् ते श्वेताम्बराणां धर्मस्थानेषु तृणपूलकान् निक्षेपयन्ति, यूयं पशव इति भावः । अनयाऽवज्ञया खपटाचार्या न चुक्रुधुः, गुरुत्वात् । यतः -- उपद्रवत्सु क्षुद्रेषु, न ध्यन्ति महाशयाः । उत्फालैः शरैः किं स्या-ल्लोलः कल्लोलिनीपतिः। ॥१॥ भुवनस्तु चुकोप | श्रावकशतसहस्रसङ्कुलो राज्ञः पार्श्व ययौ श्रीसङ्घगुर्वनुज्ञां गृहीत्वा तत्रोचैरुवाचतावडिण्डिमघोषणां विदधतां तावत् प्रशंसन्तु च स्वात्मानं प्रथयन्तु तावदतुलां रीढां च पूज्ये खलाः । यावत् प्राज्यघृतप्रतर्पितंबृहद्भानुप्ररोहत्पृथु-- ___ ज्वालाजालकरालजल्पनिवहे नोतिष्ठतेऽयं जनः ॥ १ ॥" राज्ञा बलमित्रेणोक्तम् -साधो ! किं किमात्थ ?। भुवनो बभाण-तव गुरवस्तार्किकंमन्या गेहेनर्दिनः श्वेताम्बरान् निन्दन्ति, ततो वयं बादाय त्वत्सदः सम्प्राप्ताः । आस्फालय तान् मया सह, एकदा भवतु श्रोतृणां कर्णकौतुकम् । ततो राज्ञा ते आहूताः । चतुरङ्गसभायां वादं कारिताः । भुवनमुनिपश्चाननतर्कचपेटाताडिताः "फेरण्डा इव तूष्णीकाः समजनिषत । राजादि१ कखपुटा'। ३ क-ख-- 'धर्मस्थाने' 13 ख-. 'तया' । ४ कखपुटा'। ५ क--- 'शुभ्यन्ति। ६ मत्स्यविशेषैः। ७ अनुष्टुप् । ८ अविनयम् । १ अग्नि । १. शाईल.। ११ शृगालाः। ----- -- --
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy