SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः] प्रबन्धकोशेत्यपराह्वये वृद्धिं कुर्वे । गुरुभिः प्रतिपन्नम् । ततस्तदत्तभूमौ तद्योग्या देव. कुलिका कारिता । तत्र चामितं धनं लब्धम् । लल्लो निष्प्रतिमल्लसुखभाजनमभवत् । सङ्घश्च तुष्टः । लल्लद्वेषाद् द्विजैर्मुमूर्षुगौश्चैत्ये क्षिप्ता । सा तत्र मृता । श्रावकैर्विज्ञप्तं तद् गुरवे । गुरुणा विद्याबलाद् गौर्ब्रह्मभवने क्षिप्ता । यच्चिन्त्यते परस्य तदायाति सम्मुख- ५ मेव । ब्राह्मणैरनन्योपायत्वात् जीवदेवसूरयोऽनुनीताः । जीवदेवसूरे ! तारय नः । श्रीसूरिभिस्ते तर्जिताः, उक्ताश्च–यदि मच्चैत्ये मत्पट्टसूरेश्च श्रावकवत् सा भक्तिं कुरुध्वे, मत्सरेः सूरिपदप्रस्तावे 'हेममययज्ञोपवीतं दत्थ, तत्सुखासनं स्वयं वहथ, तदा गामिमा ब्रह्मालयादाकृषामि; अन्यथा तु न । 'तैरपि कार्यातुरैः सर्वमङ्गी- १० कृतम् | अक्षरादिभिः स्थैर्यमुत्पादितम् । ततो गौराकृष्याचार्यबहिः क्षिप्ता । तुष्टं चातुर्वर्ण्यम् । कालान्तरे मरणासत्तौ सूरिभिस्तस्माद् योगिनो बिभ्यद्भिः स्वकीयाखण्डकपालस्य सर्वसिद्धिहेतोभञ्जनं श्रावकाग्ने कथितम् । अन्यथा विद्यासिद्धौ सङ्घोपद्रवं करिष्यति । तथैव तैस्तदा चक्रे । योगी निराशश्चिरमरोदीत् ॥ इति श्रीजीवदेवसूरिप्रबन्धः ॥ ३ ॥ MENU . .१ ग-'पनं तत् । तहत०' । २ काख-- हेमयज्ञोपनी(वी)तं'। ३ क-ख. 'तैरेव ।। ४ क.-सर्वमप्यङ्गी-'। ५ ग--पुस्तके 'अन्यथा विद्यासिद्धी सोपद्रवं करिष्यति' एतद धिकं दृश्यते। चतुर्विशति०३
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy