SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे [ ३ श्रीजीवदेवपूर Į एवं वदन् विप्रान् विसृज्य स्वगृहमगमत् । 'सर्वदर्शनामामाचारान् विठोकते । एकदा मध्याह्ने श्रीजीवदेवसूरीणां साधुसङ्घाटकस्तद्गृहे भिक्षार्थं गतः । तयोः शुद्धभिक्षाग्रहणात् तुष्टः । लल्लन तौ मुनी आलापिती- युवयोः के गुरवः । ताभ्यां श्रीजीवदेवसूरयः कथिताः । लल्लुस्तत्र गतः । श्रावकद्वादशवतीं सम्यक्त्वां ललौ । अन्यदा लल्लेनोक्तम् - सूर्यपर्वणि मया द्रव्यलक्षं दाने कल्पितम् । तस्थार्द्ध व्ययितम्, शेषमर्द्ध गृह्णीतम् । न गृह्णन्ति ते निर्लोभाः । लल्लो बाढं प्रीतः । गुरुभिरुक्तम् अद्य सायं प्रक्षालितैकपादस्य तव यत् प्राभृतमायाति तदस्मत्पार्श्वे आनेयम् । इति श्रुत्वा १० गृहं गतो लछुः । सायं केनापि द्वौ वृषभौ प्राभूतीकृतौ । लल्लेन गुरुपार्श्वमानीतौ । गुरुणोक्तम् — यत्रैतौ स्वयं यावा तिष्ठतः तंत्रतद्द्द्रव्यव्ययेन चैत्यं काराप्यम् । तच्छ्रुत्वा तेन वृषौ स्वच्छन्दं मुक्तौ • पिप्पल्लानक' ग्रामे गतौ कचित् स्थितौ । तत्र भूमौ लल्लेन चैत्यमारब्धम् निष्पन्नम् । तत्रावधूतः कोऽप्यायातः । १५ तेनोक्तम् अत्र प्रासादे दोषोऽस्ति । जनैरुक्तम्- को दोषः । तेनोक्तम्-त्रीशल्यमास्ते । लल्लेन तच्छ्रुखा गुरवो विज्ञप्ताः । गुरुभिरुक्तम्- निःशल्यां भूमिं कृत्वा पुनः प्रासादः कार्यते, लख ! स्वया द्रव्यचिन्ता न कार्या, तदधिष्ठात्रयो धनं पूरयिष्यन्ति । प्रासाद उत्कीलयितुमारेभे । शब्द उत्पन्न: - चैत्यं नोस्कीलनीयम् । २० गुरवो विज्ञप्ताः । तैर्ध्यानं दध्रे । अधिष्ठात्री देव्याययौ । तयोक्तम्--' कन्यकुब्ज' राजसुताऽहं मेहणीकनाम्नी पूर्व ' गुर्जर'देशे वसन्ती म्लेच्छसैन्ये समागते पलायमाना तेषु पृष्ठापतितेषु भियाऽत्र कूपेऽपतम् । मृत्वा व्यन्तरी जाता । अतः स्वाङ्गास्थिशल्याकर्षणं नानुमन्ये । प्रतोय "मामधिष्ठात्रीं त्वं कुरु यथा ऋद्धिं 1 । મ ५ - १ क ख - प्रत्योः 'सर्व' इति पदं नास्ति । २ ग 'कथितम्' । ३ क ख -- तत्रैव द्रव्यध्ययेन' । ४ ख - पिष्पलानकग्रामं ' ५ ग' महणीनाम्नी' । ६ क-ख-'पतन्ती' । ७ क ख 'मामधिष्ठात्री कुरु यदवा' |
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy