SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ૨૪૮ चतुर्विंशतिप्रबन्धे [ २४ श्रीवस्तुपाल ४ आकाशे जैनमुनिमूर्तिरोपणात् त्वत्परं दर्शनपूजाऽल्पत्वाय ५ हलीकृष्णा न मङ्गलाय ६ भारपदा: द्वादशहस्तप्रलम्बाः कालेन स कोऽप्येवंविधो न भविष्यति यः विनाशे ईदृश: प्रक्षेपयिष्यति ७ । इत्यादि श्रुत्वा सत्यं मत्वा न चुकोप कोऽपि । भवितव्यतां चाप्रतिकारां निश्चिये । विविधदानैर्विक्रमादित्य इव प्रकाश्य महिमानं विसृज्य स्वस्थाने लोकं सपरिजनो 'धवलकं' गत्वा प्रभुं नत्वा सुखं तस्थौ । इत श्रीवीरधवलस्य द्वौ पुत्रौ स्तः । एको वीरमः, अपरो वीसलः । तत्र वरिमो यौवनस्थः सूरेषु 'रेखां प्राप्तः यो वर्षा१० काले कस्मादुपरि पतन्त्या विद्युत उद्देशेन कृपाणीमाकृषत् । स एकदा चिदेकादशीपर्वणि 'धवलकक'मध्ये तरुतलमगमत् । तत्र पर्वण्यसौ रीति:- वैष्णवैः सर्वैरष्टोत्तरशतं बदराण वा आमलकानां द्रम्माणां वा मोक्तव्यं तरोरधः | वरिमेनाऽष्टोत्तरं शतं द्रम्मा मुक्ताः । एकेन तु वणिजा तैस्यामेव सभायां स्थितेना१५ ष्टोत्तरशतं आबूनां मुक्तम् । वीरमेण तस्योपरि कृपाणिका कृष्टा । रे अस्मत्तः किमधिकं करोमीति वदन्नसौ वणिजं हन्तुमन्वधावत् । वणिग् नष्ट्वा वीरधवलाप्यासितां सभामाविशत् । जातः कलकलः । ज्ञातं पारम्पर्यं वीरधवलेन । वणिजि पश्यति वीरम आकार्य हक्कितः -- का ते चर्चा यद्ययं स्वदधिकं २० करोति ? । अस्माकं न्यायं न वेत्सि ? । दूरे भव, पुनर्मदृष्टौ नागन्तव्यम् । वणिजो मम जङ्गमः कोशः । मयि जीवति सति केनाभिभूयन्ते । इत्युक्त्वा तं 'वीरमग्रामा'ख्ये आसन्नग्रामे - प्रतिष्ठित् । स तु कोणिककुमारवत् कंसवत् पितरि द्विष्ट जीवन्मृतंमन्योऽस्थात् । वीसलस्तु राणश्रीवीरधवलस्य वल्लभः २५ श्रीवस्तुपालस्य च । 11 १ ग - पुस्तके 'हली कृष्णा' एतदारभ्य 'प्रक्षेपयिष्यति' एतावत् पाठाधिक्यम् । २ क- ' ' । ३ ग - 'तत्र स्थितेनाष्टोत्तरशतं दुष्कता मुक्ता' ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy