SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे [२४ श्रीवस्तुपाल जनमुख्यं श्रावकं चाम्पलनामानं गृहे गत्वाऽऽललाप । वयं चैत्य'मर्बुदे' कारयामहे यदि पूजासान्निध्यं कुरुध्वे । चाम्पलेनापि स्वस्य कुटुम्बान्तराणामपि देवपूजार्थं नित्यधनचिन्ता कृता । ततो मन्त्री 'आरासणं' गत्वा चैत्यनिष्पत्तियोग्यं दलवाटकं निरका५ शयत् । तद्युग्यैरहकलै (?) श्वार्बुदोपत्यकमानीमयत् । अर्धक्रोशार्धक्रोशान्तरे हट्टानि मण्डापितानि । तत्र सर्व लभ्यते, पशूनां नराणां क्षुधादि कृच्छ्रं मा भूदिति । 'उम्बरिणी' पथेन प्रासादनिष्पत्तियोग्यं दल द्विगुणमुपारे गिरेः प्रवेशयामास । पुनस्तां पद्यां विषम चकार यथा परचऋप्रवेशो नो भवेत् । एवं सिद्धे पूर्वकर्मणि १० शोभनदेवं सूत्रधारमाहूय कर्मस्थाये न्ययुङ्क्त । ऊदलाख्यं शाल उपरिस्थायिनमकरोत् । अर्थव्यये स्वैरितां च समादिशत् । एवं सूत्रं कृत्वा तेजःपालो 'धवलक्कक 'मागमत् । निष्पद्यते प्रासादः । श्रीमिबिम्बं कषोपमयं सज्जीकृतं विद्यते । सूत्रधाराणां सप्तशती घटयति घाटम् । ते तु दुःशीलाः पुरः पुरोऽर्थं गृह्णन्ति । कार्यकाले १५ पुनः पुनर्याचन्ते । तत ऊदलो मन्त्रितेजःपालाय लिखति देव ! इम्मा विनश्यन्ति । सूत्रधाराः कर्मस्थायात् प्रथमं प्रथमं गृह्णन्ति । ततस्तेजःपालेन कथापितम् - द्रम्मा विनष्टा इति किं बूषे ? । विनष्टा किं कुथिता: ? । न तावत् कुथिताः, किन्तु मनुष्याणामुपकृताः । उपकृताश्चेद् विनष्टाः कथं कथ्यन्ते ? | माता मे वन्ध्येति वाक्यवत् २४ परस्परं विरुद्धं ब्रूषे । तस्मात् तत्त्वमिदम् - सूत्रधाराणामिच्छाच्छेदो न कार्यः, देयमेवेति । ततो दत्ते ऊदलः । तावन्निष्पन्नं यावद् गर्भगृहं मध्ये श्री नेमिनाथविम्बं स्थापितम् । एतच्च कृतं श्री तेज:पालाय विज्ञप्तम् । तुष्टौ द्वौ मन्त्रिणौ । श्रीवस्तुपालादेशात् तेजः पालोऽनुपमया सहानल्पपरिच्छदो' ऽर्बुद' गिरिं प्राप्तः । प्रासादं २५. निष्पन्नप्रायं ददर्श तुतोष (च) । स्नात्वा सद्वस्त्रप्रावरणः सपत्नीको ग - निरवकाशयति' । २ ख - 'उबरणी०', घ- 'उम्बरणी० । ३ ग - 'आत्म शालकं ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy