SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराह्वये मन्त्री नेमिं पूजयति स्म । अथ कायोत्सर्गे ध्याने नोर्ध्वस्तस्थौ चिरम् | क्षणार्धेनाऽनुपमा पतिं तथास्थं मुक्त्वा प्रासादनिष्पत्तिकुतूहलेन बहिरागात् । तत्र सूत्रधारः शोभनदेवो मण्डपचतु:स्तम्भ ऊर्ध्वयितुं उपक्रमते । तदा मन्त्रिण्या उक्तम्सूत्रधार ! मम पश्यन्त्याश्विरं बभूव । अद्यापि स्तम्भा नोत्तभ्यन्ते । शोभनदेवेनोक्तम्- स्वामिनि ! गिरिपरिसरोऽयम्, शीतं स्फीतम्, प्रातर्धटनं विषमम् । मध्याह्नोद्देशे तु गृहाय गम्यते । स्नायते, पच्यते, भुज्यते । एवं विलम्बः स्यात् । अथ विलम्बात् किं भयम् ?, श्रीमन्त्रिपादाश्विरं राज्यमुपभुञ्जानाः सन्तीह तावत् । ततोऽनुपमया जगदे — सूत्रधार ! चाटुमात्र १० मेतत् । कोऽपि क्षणः कीदृक् भवेत् को वेत्ति ? । सूत्रधारो मौनं कृत्वा स्थितः । पत्नीवचनमाकर्ण्य सचिवेन्द्रो बहिर्निः सूक्ष्य सूत्रधारमवोचत् — अनुपमा किं वावदीति । सूत्रधारो व्याहार्षीत् -- यद् देवेन अवधारितम् । मन्त्री दयितामाह-किं स्वयोक्तम् । अनुपमाऽऽह - देव ! वदन्त्यस्मि - कालस्य १५ को विश्वासः ? । काऽपि कालवेला कीदृशी भवति । न सर्वदा - sपि पुरुषाणां तेजस्तथा । यथा- श्रियोर्वा स्वस्य वा नाशो, येनावश्यं विनश्यति । श्री सम्बन्धे बुधाः स्थैर्य - बुद्धिं बनन्ति तत्र किम् ॥१॥ वृद्धानाराधयन्तोऽपि तपयन्तोऽपि पूर्वजान् । " पश्यन्तोऽपि गतश्रीकान्, अहो मुह्यन्ति जन्तवः ॥ २ ॥' भूपभ्रपल्लवप्रान्ते, निरालम्बाऽविलम्बनम् I स्थेयसी बत मन्यन्ते, सेवकाः स्वामपि श्रियम् ॥ ३ ॥ इति विपदितो मृत्यु - रितो व्याधिरितो जरा । जन्तवो हन्त पांड्यन्ते, चतुर्भिरपि सन्ततम् ॥४॥ Ε મ २० २५ १ ख- 'मौनेनातिष्ठत्' । २-३ अनुष्टुप् । ४ ग - ' स्वरुपाव स्थायिनी लक्ष्मी, मन्यन्ते मन्त्रिणो बुधाः । ५--६ अनुष्टुप् ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy