SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २३० प्रवा ] प्रवन्धकोशराये 'वर्षे विक्रमात् १२७३ वर्षे 'बब्बेर'पुरात् कृता । द्वितीया सुरत्राणादेशात् षडशीत्यधिके द्वादशशतसङ्ये १२८६ वर्षे 'नागपुरा'त् कर्तुमारब्धा । तत्सधेऽष्टादश शतानि शकटानि । बहवो महाधराः । कुमारः तेन सहितो 'माण्डल्य'पुरं यावदायातः ततः सङ्घसम्मुखमागत्य 'तेजःपालेन 'धवलक्क'मानीतः । श्री- ५ वस्तुपालः सम्मुखमागात् । सकस्य धूली पवनानुकूल्याद् यां यां दिशमनुधावति तत्र तत्र स गच्छति । तटस्थैनरैर्मणितम्मन्त्रीश ! इतो रजः । इतः पादोऽवधार्यताम् । ततः सचिवेन क्मणे-- इदं रजः स्पष्टुं पुण्यैर्लभ्यते । अनेन रजसा स्पृष्टेन पापरजांसि दूरे नश्यन्ति । यतःश्रीनाथपान्थरजसा विरजा भवन्ति तीर्थेषु बम्भ्रमणतो न भवे भ्रमन्ति । द्रव्यव्ययादिह नरा स्थिरसम्पदः स्युः पूज्या भवन्ति जगदीशमथार्चयन्तः ॥ १ ॥ ततः सङ्घपतिपूनड-मन्त्रिणोगाढीलिङ्गन-प्रियालापौ संवृत्तौ । सर- १५ स्तीरे स्थितः सङ्घः । पूनडः कुलगुरुमलधारिश्रीनरचन्द्रसूरिपादान् ववन्दे । रात्रौ श्रीवस्तुपालेन कथापितं पूनडाय पुण्यात्मने-प्रातः सर्वसङ्घनास्मद्रसवल्यतिथिना युष्मता च भवितव्यम् , धूमो न कार्यः । पूनडेन तथेति प्रतिपन्नम् । रात्रौ मण्डपो द्विद्वारो रसवतीप्रकारश्च । सर्व निष्पन्नम् । प्रातरायान्ति नागपुरीयाः । सर्वेषां चरणक्षालनं तिलकरचनां च श्रीवस्तुपालः स्वहस्तेन करोति । एवं लमा द्विग्रहरी । मन्त्री तु तथैव निर्विण्णः । तदा तेज: १ ख- ' वर्षे वत्सरे पुराद विहिता। द्वितीया '। २ ग-बिम्बर ०' । ३ घ'महामधराः' । ग-'तदनुसारेण शेषः परिवारः । माण्डलिग्रामासन्नी यावदायातः स सधः तावत् सन्मुख.'। ५ घ-महन्तकतेजःपालेन' । ६ वसन्त । ७ ग'प्ठमालिझन.' । ८ ग-'नास्मदावासे भोक्तव्यम्, धूमो' । ९ घ-'आदृष्टम्' ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy