SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २३८ चतुर्विंशतिप्रबन्धे [ २४ श्रीवस्तुपाल पालेन विज्ञतम् - अन्यैरपि देव ! वयं सङ्घपदक्षालनादि करिष्यामः, यूयं भुग्ध्वम्, तापो भावी । 'मन्त्री भणति - मैवं 'वादीः । पुण्यैरयमवसरो लभ्यते । गुरुमिरपि कथापितम् - यस्मिन् कुले यः पुरुषः प्रधानः, स एव यत्नेन हि रक्षणीयः । तस्मिन् विनष्टे हि कुलं विनष्टं, न नाभिभङ्गे त्वरका वदन्ति ॥ १ ॥ * तस्माद् भोक्तव्यं भवद्भिः । तापो मा भूत् । 'मन्त्रिणा गुरून् प्रति पुनरिदं काव्यं प्रहितम् - 4 अद्य मे फलवती पितुराशा, मातुरशिषि शिखाङ्कुरिताऽथ । यद् युगादि जिन यात्रिक लोकं, पूजयाम्यहमशेषमखिन्नः ||२|| १० भोजयता मन्त्रिणा नागपुरीयाणामेकपडिवं दृष्ट्वा शिरो धूनि - तम् । अहो शुद्धा लोका एते ! । एवं भोजयित्वा परिधाप्य च रञ्जितो 'नागपुर' सङ्घः । गतौ वस्तुपाल - पुनडौ श्री 'शत्रुञ्जयं' सङ्घौ । वन्दितः श्री ऋषभः । एकदा स्नात्रे सति देवार्चको देवस्य नासां पिधत्ते पुष्पैः किल कलसेन नासां मा पीडीदिल्या१५ शयतः । तदा मन्त्रिणा चिन्तितम् - कदाचिद् दैवाद् देवाधिदेवस्य कलसादिना परचक्रेण वाऽवक्तव्यमङ्गलं भवेत् तदा का गतिः सहस्य इति चिन्तयित्वा पूनड आलेपे - भ्रातः ! सङ्कल्पोऽयमेवं मे संवृत्तः- यदि बिम्बान्तरमैश्ममम्माणमयं क्रियते तदा सुन्दर - तरम् । तत् तु सुरत्राणमोजदीनमित्रे त्वयि यतमाने स्यान्नान्यथा । २० पुनडेनोक्तम्- 'तत्र गतैश्चिन्तयिष्यतेऽदः । इत्यादि वदन्तौ 'रैवता' दितीर्थान् वन्दित्वा व्यावृत्तौ तौ । गतः पूनडो 'नागपुर' म् । मन्त्री धवलके राज्यं शास्ति । एवं स्थितेऽन्येद्युः सुरत्राणमोजदीनमाता वृद्धा हजयात्रार्थिनी ----- १ गदेव ! अन्यरपि पद्मभक्तिः कारयिष्यते । २ घ - मन्त्रिनरेन्द्रेण उक्तम्बदन | पुण्यं । ३ ख - 'दित' । ४ उपजातिः । ५ ख - घ - 'मंत्रिणा पत्रीं गुरुमिः प्रैषि । तत्र काव्यम्' । ६ स्वागता । ७ क - ' मस्य' । ८ ग - 'सुन्दरम्' । ९ ग- 'ततः ' । १० ग - ' स्तम्भतीर्थे' ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy