SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराह्वये एवं भावं सम्पूर्य देवोत्तमं श्रीनेमिमापृच्छय सर्वास्तीर्थचिन्ताः कृताः। निर्माल्यपदं दत्त्वा पर्वतादुदतारीत् , न सता हृदयात् , नापि महत्वात् । अथ खङ्गारदुर्गाद्रि-देवपत्तनादिषु देवान् ववन्दे । तेजःपालं ' खङ्गारदुर्गे ' स्थापयित्वा स्वयं ससयो वस्तुपाला श्री धवलकके' श्रीवीरधवलमगमत् । स्वागतप्रश्नः स्वामिना ५ कृतः । आरम्भसिद्धिप्रश्नश्च । ततो मन्त्र्याह-~ कामं स्वामिप्रसादेन, प्रेष्याः कर्मसु कर्मठाः । तद् बैभवं बृहदानोः, कचिदूष्मा जलेऽपि यत् ॥१॥ राणकेन ससबः सचिवः स्वसदने भोजितः परिधापितः स्तुतश्च । तेजापालस्तु 'खजारदुर्ग'स्थो भूमिं विलोक्य २० 'तेजलपुर ममण्डयत्, सत्रा-ऽऽराम-पुर-प्रपा-जिमगृहादिरम्यम् । प्राकारश्च 'तेजलपुरं ' परितः कारितः । पाषाणबद्धस्तुङ्गः । अय वस्तुपाला श्रीवीरधवलपार्थे सेवां विधत्ते । देशः मुस्थः । धर्मो वर्तते । एवं सत्येकदा 'दिल्ली नगरादेत्य चरपुरुषैः श्रावस्तुपालो विज्ञप्त:- देव | "दिल्ली'तः श्रीमोजदीन- १५ मुरत्राणस्य सैन्यं पश्चिमी दिशमुद्दिश्य चलितम् । चत्वारि प्रयाणानि व्यूढम् , तस्मात् सावधानैः स्थेयम् । मन्ये 'अर्बुद'मध्ये भूत्वा 'गूर्जर'धरां प्रवेष्टा । मन्त्रिणा सत्कृत्य ते चरा राणपार्श्व नीताः । कथापितः स प्रबन्धः । ततो राणकेनामाणि-- वस्तुपाल ! म्लेच्छगर्दभिल्लो 'गर्दभी' विद्यासिद्धोऽप्यभिभूतः । २. नित्यं सूर्यबिम्बनिर्यत्तुरङ्गमकृतराजपाटीकः शिलादित्योऽपि पीडितः । सप्तशतयोजनभूनाथो जयन्तचन्द्रोऽपि क्षयं नीतः । विंशतिवारबद्धसहावदीनपुरत्राणमोक्ता पृथ्वीराजोऽपि बद्धः । तस्माद् दुर्जया अमी । किं कर्ताऽसि ? । वस्तुपाल उवाचखामिन् ! प्रेषय मां यदुचितं तत् करिष्यामि । ततः साराच- २५ ग-'सर्वासा तीर्थचिन्ताकृता' । २ अमेः । ३ अनुष्टुम् । । ग-'पालोऽपि'। ५--घ-'बईदिशा गर्जर'।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy