SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ प्रवेः ] reporteryear I सङ्घदर्शनसुष्टात्मा, भूयांसं विहगोऽप्यहम् ||५|| यद् दाये द्यूतकारस्य, यत् प्रियायां वियोगिनः । यद् राधावेधिनो लक्षे तद् ध्यानं मेऽस्तु ते मते ॥६॥' इत्याद्यकथयत् । एवं सोऽपि चलितः । ससङ्घः सचिवः मरुदेवाशिखराद यावत् कियदपि याति तावत् श्रमवशविगलत्स्वेदक्किन्नगात्रवसनान् कत्यपि मालिकान् पुष्पकरण्डकभारितशिरसोऽपश्यत् । पृष्टास्ते - कथमुत्सुका इव यूयम् ! । तैर्विज्ञतम् - देव ! वयं दूरात् पुष्पाण्याहार्भः । सङ्घः किल 'शत्रुञ्जय' शिखरेऽस्ति । प्रकृष्टं मूल्यं लप्स्यामहे । तत् पुनरन्यथा 'वृत्तम् । सङ्घश्चलितः । तस्मादभाग्या वयमिति । तेषां दैन्यं दृष्ट्वा मन्त्रिणाऽमाणि - अत्रैव स्थीय १० तामूर्ध्वेः क्षणम् । तावता पाश्चात्यं सर्वमायातम् । श्रीवस्तुपालेन स्वकुटुम्बं सङ्घश्चाभाण्यताम्, यथा-भो धन्याः । सर्वेषां पूर्णस्तीर्थवन्दनपूजाभिलाषः ?। लोकेनोक्तम् - भवत्प्रसादात् पूर्णः । मन्त्रयाहकिमपि तीर्थमपूजितं स्थितमस्ति । लोकः प्राह- प्रत्येकं सर्वाणि तीर्थानि पूजितानि ध्यातानि । मन्त्रिमहेन्द्रः प्राह-यद् विस्मृतं तन्न १५ जानीथ यूयम् ; वयं स्मारयामः । सङ्घो वदति - किं विस्मृतम् !! मन्त्री गदति-भो लोकाः ! पूर्वं तीर्थमयं पर्वतः यत्र स्वयमृषभदेवः समवासार्षीत् । ततो नेमिवर्जिता द्वाविंशतिर्जिनाः समवासार्षुः । असङ्ख्याः सिद्धाश्व यत्र सोऽद्रिः कथं न तीर्थम् । लोकोऽप्याह- सत्यं तीर्थमयं पर्वतः । तर्हि पूज्यताम् । पुष्पादीनि स्वेति २० चेदकथयिष्यन् तदा इमे मालिका इमानि पुष्पाणि वः पुण्यैरुपास्थिपतेति । ततः सङ्घेन तानि पुष्पाणि गृहीत्वाऽद्रिपूजा कृता । द्वैम्मेण पुष्पं जातम् । नालिकेरा स्फालनवस्त्रदानादिव्यश्च । तुष्टा मालिकाः । एवं पराशाभङ्गपराङ्मुख आसराजभूः । ततः शनैः शनैः पशुतुरङ्गशिश्वाद्यपीडया सङ्घो 'रैवतक'मारुरोह च । नेमिनि २५ I १-२ अनुष्टुप् । ३ ग - 'जातम्' । ४ ग - ' वदति' । ६ 'द्रम्मे० जातम्' इविको ग-पाठः । ७ बालकप्रमुख० । चतुर्विंशति २० २३ - ५. ५ क - ' त्रयोविंशति ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy