SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ प्रबन्धा] प्रबन्धकोशेत्यपराइये रुदितं प्रथममश्रुमात्रं, ततोऽव्यक्त इतरो ध्वनिः, ततो व्यक्ततरः । सर्वे तटस्थाः पृच्छन्ति-देव ! किं कारणं रुयते ! ! हर्षस्थाने को विषादः ? । श्रुतशील इव नलस्य, उद्धव इव विष्णो:, अभय इव भेणिकस्य, कल्पक इव नन्दस्य, जाम्बक इव वनराजस्य, विद्याधर इव जयन्तराजस्य, आलिग इव ५ सिद्धराजस्य, उदयन इव कुमारपालस्य त्वं मन्त्री वीरधवलस्य । विपद्धीताः पर्वता इव सागरं त्वामाश्रयन्ति भूपाः। तायेणेव पनगास्त्वया हताः सपत्नाः पृथिवीपालाः । चन्द्राय इव चकोरास्तुभ्यं स्पृहयन्ति स्वजनाः। हिमवत इव गङ्गा त्वत्प्रभवति राजनीतिः । भानोरिव पास्तवोदयमीहन्ते सूरयः । १० विष्णाविव त्वयि रमते श्रीः । तन्नास्ति यन्नास्ति ते । एवं सति किमर्थ दुःखं ध्रियते ! । ततो मन्त्रिणोक्तम्-इदं दुःख पन्मे भाग्य सङ्घाधिपत्यादिविभूतिर्मात्मरणादनन्तरं सम्पन्ना, यदि तु सा मे माता इदानीं स्यात् तदा खहस्तेन मङ्गलानि कुर्वल्यास्तस्या मम च मङ्गलानि कारयतः पश्यतश्च लोकस्य कियत् सुखं भवेत् ! । परं १५ किं कुर्मः ? । धात्रा इताः स्मः, एकैकन्यूनीकरणेन । ततः श्रीनरचन्द्रसूरिभिर्मलधारि'भिरभिहतम्-मन्त्रीश्वर! यथा स्वं सचिवेषु तथाऽत्र देशे प्रधानराजसु सिद्धराजो 'व्यजीयत । स मालवेन्द्र जित्वा 'पत्तन'मागतो मङ्गलेषु क्रियमाणेष्वपाठीद्, यथा माऽस्म सीमन्तिनी कापि, जनयेत् मुतमीदृशम् । २. बृहद्भाग्यफलं यस्य, मृतमातुरनन्तरम् ॥१॥ तस्मात् हृदयं अधःकृत्वा स्थीयते विवेकिभिः । न सर्वेऽपि तृणां मनोरथाः प्रपूर्यन्ते । इत्याद्युक्त्वा मन्त्री बलादारात्रिकमङ्गलदीपादिः कारितः । ततो चैत्यवन्दना गुरुवन्दनं च । तदा श्रीनरचन्द्रसूरिभिराशार्दत्ता २५ १ घ-कल्यक'। ३ ' एवं• प्रियते' इति ग-पाठः।। घ- व्यजयत'।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy