SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे [ २४ श्रीवस्तुपाल " नृपव्यापारपापेभ्यः, सुकृतं स्वीकृतं न यैः । तान् धूलिधावकेभ्योऽपि मन्ये मूढतरान् नरान् ॥ २ ॥ इत्यादि विमृश्य तेजःपालेन नित्यभक्तेन साम्मत्यं कृत्वा 'मलधारि ' श्रीनरचन्द्रसूरिपादानपृच्छत् - भगवन् ! या मे चिन्ताऽधुना सा ५ निष्प्रत्यूहं सेत्स्यति ? | प्रभुभिः शास्त्रज्ञकिरीटैरुक्तम्-- जिनयात्राचिन्ता वर्तते सा सेत्स्यति । वस्तुपालेन गदितम् - तर्हि देवालये 'वासनिक्षेपः क्रियताम् । श्रीनरचन्द्रसूरयः प्राहु:- मन्त्रीश ! वयं ते मातृपक्षे गुरवः, न पितृपक्षे । पितृपक्षे तु 'नागेन्द्र'गच्छीयाः श्रीअमरचन्द्रसूरि श्री माहेन्द्रसूरिपदे श्रीविजयसेनसूरय उदय१० प्रभसूरसञ्ज्ञकशिष्ययुजो विशालगन्छाः 'पीलूआई' देशे बर्तन्ते ते वासनिक्षेपं कुर्वन्तु, परं न वयम् । यदुक्तम्ज जस्स ठिई जा जस्स संतई पुब्वपुरिसकयमेरा | कंठट्टिए वि जीए सा तेण न लंघियव्व त्ति ॥ १ ॥ * अथ मन्त्रयाह - अस्माभिर्भवदन्तिके त्रैविद्यषडावश्यक कर्मप्रकृत्या१५ अधीतम् । यूयमेव गुरवः । प्रभुभिरुक्तम् - नैवं वाच्यम्, लोभपिशाचप्रवेशप्रसङ्गात् । ततो मन्त्रिभ्यां 'मरु' देशाद् गुरवः शीघ्रमानायिताः । मुहूर्त प्रतिष्ठादेवालय प्रस्थापनं वासनिक्षेपणं कुलगुरुभिः कृतम् । साधर्मिक वात्सल्यं शान्तिकं मारिवारणं स्वामिपूजनं लेोकरञ्जनं चैत्यपरिपाटीपर्यटनं च विहितम् । अथ प्रतिलाभना । तत्र २० मिलिताः कवीश्वराः नरेश्वराः सङ्घेश्वराः । दत्तानि कौशेय-कटककुण्डल - हारादीनि लोकेभ्यः । यतिपतिभ्यस्तु तदुचितानि वस्त्रकम्बल-भोज्यादीनि । तद। श्रीनरचन्द्रसूरिभिः सङ्घानुज्ञातैर्व्याख्या कृता । २२८ १ अनुष्टुप् । २ ग - 'वासक्षेप : ' । ३ छाया-या यस्य स्थितियां यस्य सन्ततिः पूर्वपुरुषकता मर्यादा । कण्ठस्थितेऽपि जीवे सा तेन न लङ्घितव्येति ॥ ५ ग - 'कौशवकटक०' । ४ आर्या ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy