SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रवन्धकोशेत्यपराये तादृगेव पादाङ्गुलौ स्थापिता । द्वितीयदिने पुनः राणस्तत्रैव चन्द्रशालायां प्रसुप्तः । वण्ठश्वरणौ चम्पयति । राणकस्तथैव पटीस्थगितवदनोऽस्ति । वण्ठः पुनः पुनः मुद्रामालोकते । अहो प्राक्तनी चेयम् । ततो राणेन्द्रः प्राह - भो वण्ठ ! इमां तु मुद्रां मा प्रहीः; या कल्ये गृहीता सा गृहीता । एतद्वचनाकर्णन एव वण्ठो भीत्या वज्राइत इवास्थात् । यतः- हसन्नपि नृपो हन्ति, मानयन्नपि दुर्जनः । स्पृशन्नपि गजो हन्ति, जिघ्रन्नपि भुजङ्गमः ॥ १ ॥ ' तां तस्य दीनतां दृष्ट्वा 'राणेन भणितम् - वत्स ! मा भैषीः । अस्माकमेवायं कार्पण्यजो दोषो येन तेऽल्पा वृत्तिः । इच्छा न पूर्यते । १ ततो बहृपाये चौर्ये बुद्धिः । अतः परं हृय आरोहाय दीयमानोऽस्ति, लक्षार्धं वृत्तौ । इत्याश्वासितः सः । अतो वरिधवलः क्षमापरत्वाज्जगद्वल्लभः सेवकसदाफलत्वेम पप्रथे । स सहज दयाई इति कारणान्मन्त्रिभ्यां रहः कथान्तरे 'शान्ति'पर्वणि द्वैपायनो भीष्मयुधिष्ठिरोपदेशद्वारायातं द्वैपायनोत- १५ द्वात्रिंशदधिकारमयेतिहासशास्त्रीयाष्टाविंशाधिकारस्थं शिवपुराणमध्यगतं च मांसपरिहारं व्याख्याय व्याख्याय प्रायो मांस-मद्य-मृगयाविमुखकृतः । पुनर्मलधारि' श्रीदेवप्रभसूरिसविधे व्याख्या श्राव श्रावं सविशेषं तेन तत्वपरिमलितमतिर्विरचितः । अन्येद्युर्वस्तुपाला मुहूर्ते विमृशति - यद्यईयात्रा विस्तरेण २० क्रियते तदा श्रीः फलवती भवेत् । वैचयित्वा जनानेतान् सुकृतं गृह्यते श्रिया । 3 ५ तत्त्वतो गृह्यते येन स तु धूर्तधुरन्धरः ॥ १ ॥ " १ ग- पुस्तकें ' स एव ' इत्यधिकम् । २ अमुष्टुप् । ३ ग ' राणकेन । ग- पुस्तके तु पद्यमिदम् - 'श्रीणां स्त्रीणां च ये वश्या - स्तेऽवश्यं पुरुषाधमाः । श्रियः श्रियम यद्वश्या - स्तेऽवश्यं पुरुषोत्तमाः ॥ १॥' ५ अनुष्टुप् । હ
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy