SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ प्रबन्ध j प्रबन्धकोशेत्यपरावये २२५ सविस्तरतरं व्याख्यानं कृतम् । लज्जितः सचिवेन्द्रः । पादोलगित्वा सूरीन् क्षमयित्वा 'चलितः । क्रोशान्ते ग्राम एक आगात् । तत्र नातभुक्तविलिप्तः । तदनु स्वभृत्य सचिवमेकमाकार्य आदिक्षत् । इयं वाहिनी हेमसहस्रदशबदरकयुक् सूरिभ्यो मठे देया । गतो मन्त्रिसेवकस्तत्र । भाषिताः सूरयः । मन्त्रिदत्तमिदमवधार्यताम् । ५ आचार्यैर्दृष्टम् । अश्वमारुह्य भटशतोलालितकृपाणजलप्लावितरवास्तत्र गताः यत्र श्रीवस्तुपालः । उदितश्च तैः-मन्त्रिान् ! किमहमुचितभाषी ? किं चारणः ? किं वा बन्दी ? किं नु सर्वसिद्धान्तपारगः सम्यग् जैनसूरिः ? । मया मनःप्रमोदेन यद् 'व उपश्लोकनमुक्तं तन्मूल्यभूतामिमां वो दत्तिं कथं गृह्णामि । न मयेदं बित्ताया- १० भिहितम् । किन्विदं अन्तर्मनस थ्यात्वा भणितं यथाऽद्यापि जयति जिनपतिमतम् । मन्त्री प्राह-भवन्तो निःस्पृहत्वाम्न गृह्णन्ति । वयं तु दत्तत्यान्न प्रतिगृह्णीमः । तर्हि कथमनेन हेम्ना भवितव्यमिति शिक्षा दत्त । ततः सूरिभिर्जगदे जगदेकदानी मन्त्री-स्वगृहाय सम्प्रति गंस्यते भवद्भिस्तीर्थाय कस्मैचिद् वा ? । मन्त्री आह-प्रभो ! १५ 'भृगुपुरं' श्रीसुव्रततीर्थवन्दनार्थं गच्छन्तः स्मः । आचार्याः प्राहुः-- तर्हि लब्ध इदंहेमव्ययोपायः । तत्र लेप्यमयी प्रतिमाऽऽस्ते । तत्र स्नात्रसुखासिका ने पूर्यते श्रावकाणाम् । तस्मादनेन हेममयीं स्नात्रप्रतिमा निर्मापयत । मन्त्रिणो ध्वनितं मनः । तत् तथैव च कृतम् । ततः समायातः स्वसदनं 'गुर्जर'मन्त्री । २० अन्येधुरादर्शे प्रातर्वदनं पश्यता सचिवेन पलितमेकमालोकि अपाठि । अधीता न कला काचित् , न च किञ्चित् कृतं तपः । १ 'चलितः' इत्यधिको ग-पाठः। २ युष्माकम् । ३ 'तीर्थकद्वारकसरणं एवंविधः पुरुषरत्नैः धन' इत्यधिको ग- पाठः। ग- 'दानवीर । मन्त्रिन् !'। ५ घ-निपूर्यते' । ६ स्व-घगर्जरेन्द्रमन्त्री' । चतुर्विशतिः ३९
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy