SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २२४ चतुर्विंशतिप्रबन्धे [ २४ श्रीवस्तुपाल --- विरा ( रा ) जहिं जणु पियइ घुट्टु घुट्टु चुल्लएहिं । .. सायरि अत्थि बहुतुं जल छइ खारं किं तेण ? ॥१॥ तैरेव पदैर्नष्टः स्वास्पदं गतः । तथा वयमपि स्मः । मन्त्रिणोक्तम् - कथं तथा यूयं यथा स ग्राम्यः ? | सूरयस्तारमूचुः - महामात्य ! वयमत्र श्रीपार्श्वनाथसेवकाः त्रैविद्यविदः सर्वर्धयः अत्रस्थाः शृणुमः, यथा – 'धवलक्कके' श्रीवस्तुपालो मन्त्री सरस्वतीकण्ठाभरणी भारतीप्रतिपन्नपुत्रो विद्वज्जनमधुकरसहकारः सारासारविचारवेधास्ते । इति तदुत्कण्ठितास्तत्रागन्तुम् । ईश्वरत्वाच्च न गच्छामः कापि । पुनश्चिन्तितं च कदाचिदत्र तर्थिनत्यै एतात्र १० मन्त्री । तस्य पुरो वक्ष्यामः स्वैरं सूक्तानि । इति ध्यायतामस्माकं मन्त्रिमिश्रा अत्रागताः । यावत् पठ्यते किमपि तावदसत्सम्भावनया - वज्ञापरा यूयं स्थिताः । ततः किं पठ्यते ? । गच्छत गच्छत; उत्सूरं भवति । मन्त्री प्राह- मैम मन्तुः क्षम्यतां किमेतत् पठितुमारेभे भवद्भिः ? । आचार्या जगदुः - देव ! यदा युवां बान्धवौ श्रावक श्रेण्य १५ राजराजेश्वरौ दिव्यभूषणौ श्रावकाश्च धनाढ्या दृष्टाः गतायुच्छ्रयश्व तदा एतन्नश्चित्ते बभूव - जगति स्त्रीजातिरेव धन्या यद्गर्भे जिनचक्रर्यचकिनल-कर्ण- युधिष्ठिर विक्रम-सातवाहनादयो जाताः । सम्प्रत्यपि ईदृशाः सन्ति । तस्मात् श्रीसाम्य - श्री शान्ति ब्रह्मनागआमदत्त-नागडवंश्य श्री आभूनन्दिनी कुमारा देवी श्लाघ्या २० यया एतौ कलियुग महान्धकारमज्जज्जिनधर्मप्रकाशनप्रदीपो ईदृशौ नन्दनौ जातौ । इत्येवं चिन्तयतामस्माकं पद्यपादद्वयं वदनादुद् गतम् | जिननमस्कारादि विस्मृतम् । पश्चार्द्ध तु शृणुत । यस्कुक्षिप्रभवा एते वस्तुपाल ! भवादृशाः ॥ १ ॥ I 3 १ छाया - वरं लघुजलप्रवाह: (१) यत्र जनः पिबति घुट्ट घुट्ट्ट (सहर्ष) चुलकैः । सागरेऽस्ति बहु जलमस्ति क्षारं किं तेन ? ॥ २ ग - पुस्तके 'अवस्था' इत्यधिकः पाठः । ३ घ 'अभ्यागताः । ४ ग 'ममापराधः ' । ५ क - प्रकाशप्रदीप । ६ अनुष्टुप् ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy