SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ प्रबन्धकोशेत्यपराये २५॥ स्थिताः । मन्त्रिणा रीढया भ्रूप्रणाम इव कृतः । आचार भिहितम् दूरे कर्णरसायनं निकटतस्तृष्णाऽपि नो शाम्यति । विजीयताम् । तीर्थानि पूज्यन्ताम् । मन्त्री कौतुकात् तथैव तस्थौ, किंपर्यवसानेयं प्रस्तावनेति ध्यानात् । ऊचे च-न विमः परमार्थ किमेतदभिधचे । आचार्यैरुक्तम्-पुरो गम्यतां गम्यताम् । भवतां ५ कार्याणि भूयांसि । मन्त्री सविशेष पृच्छति । सूरयो वदन्तिसचिवेन्द्र ! श्रूयताम्_ 'मरु'ग्रामे कचित् प्रामाराः स्थूलबहुला लोमशाः पशवो वसन्ति । पर्षदि निषीदान्त । कपोलझल्लरी वादयन्ति । तत्रैकदा 'वेला'क्लीयचरः पान्थ आगमत् । नवीन इति कृत्वा ग्राम्यैराहूतः। १० पृष्टः-त्वं कः ? क्वत्यः । तेनोक्तम्-अहं समुद्रतटेऽवासम्। पान्थः पुरो यामि । तैः पृष्टम्-समुद्रः केन खानितः ।। तेनोचे-स्वयम्भूः । पुनस्तैः पृष्टम्-कियान् सः ? । पान्थेनोक्तम्अलग्धपारः । किं तत्रौस्ति इति पृष्टे पुनस्तेनाचख्ये प्रावाणो मणयो हरिर्जलचरो लक्ष्मीः पयोमानुषी मुक्तौघाः सिकताः प्रवाललतिकाः सेवालमभ्भः सुधा । तीरे कल्पमहीरुहाः किमपरं नाम्नाऽपि रत्नाकरः' इति पादत्रयं पठित्वा व्याख्याय पुरो गतः पान्थः । तेषु प्राम्येध्वेकः सकौतुकः पृच्छं पृच्छं समुद्रतटमगात् । दृष्टः कल्लोलमालाचुम्बितगगनानः समुद्रः । तुष्टः सः । अचिन्तयश्च-इतो ऋद्धयः २० सर्वा लप्स्यन्ते । प्रथमं तृषितः सलिलं पिबामि । इति गत्वा पीतं तत् । दग्धः कोष्ठः । ततः पठति इति.. दूरे कर्णरसायनं निकटतस्तृष्णाऽपि नो शाम्यति । .. "ग-'प्रभुप्रणाम' । २ ग-हावभी (?) । ३ क-तत्रास्ते' । ४ शार्दूल• । ५ग-शेन ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy