SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः प्रबन्धकोशेत्यपरालये मण्डितानि सत्राणि । सत्रे सत्रे मिष्टान्नानि । उपरि ताम्बूलानि च । तत्र ग्लानार्थ वैद्या विविधाः प्रस्थापिताः । मन्त्रिव्यवस्थया दर्शनद्वेषो न । वर्णद्वेषो न । प्रतिवर्ष स्वदेशे सर्वनगरेषु वारतिनस्तिस्रः श्वेताम्बरेभ्यः प्रतिलाभना शेषदर्शनानामप्यर्चा । मन्त्रि श्रीवस्तुपालस्य पत्न्यौ द्वे ललितादेवि(वी)-सोधूनाम्न्यौ कल्पवल्लिकामधेनू इव । ललि- ५ तादेव्याः सुतो मन्त्रिजयन्तसिंहः सूहवदेवि(वी)जानिः प्रत्यक्षचिन्तामणिः । तेजःपालदयिताऽनुपमाऽनुपमैव । पठितं च काविना-- लक्ष्मीश्चला शिवा चण्डी, शंची सापल्यदूषिता । गङ्गा न्यग्गामिनी वाणी, वाक्साराऽनुपमा ततैः ॥ १॥ श्री'शत्रुञ्जया'दिषु 'नन्दीश्वरेन्द्रमण्डपप्रभृतिकर्मस्थायाः प्रारम्भि- १० षत । आरासणादिदलिकानि स्थलपथेन जलपथेन च तत्र तत्र प्राप्यन्ते । तपसामुद्यापनानां च प्रकाशः । ___ एकदा तौ भ्रातरौ द्वावपि मन्त्रिपुरन्दरौ महर्द्धिसधोपेतौ श्रीपार्श्व नन्तुं 'स्तम्भनक'पुरमीयतुः । प्रथमदिने ससधौ तौ श्रीपार्श्वस्य पुरः श्रावकश्रेणिपुरःसरौ स्थितौ । तदा गीतगान- १५ रासादिमहारसः प्रवर्तते । तदवसरे तत्रस्यसङ्घोपरोधात् तत्रल्याध्यक्षाः सूरयो मल्लवादिनः समाकारिताः । ते यावद् देवगृहं प्रविशन्ति तावत् पेठन्ति___ अस्मिन्नसारे संसारे सारं सारङ्गलोचनाः । मन्त्रिभ्यां श्रुतं चिन्तितं च–अहो मठपतिगृहवद् देवगृहेऽपि २० शृङ्गाराङ्गारगर्भ पैदद्वयं कथयन्नस्तीति । देवनमस्कारादिकमुचितमिह तन्नाधीते; तस्माददृष्टव्योऽसौ । उपविष्टः सूरिः सः । अन्येऽपि सूरयः शतशः पङ्क्तौ निषण्णाः । मङ्गलदीपान्तेऽपरसूरिभिर्मल्लवादिन एवाऽऽशीर्वादाय प्रेरिताः । मन्त्री पुरस्तिष्ठति । 'अस्मिन्नसारे संसारे सारं' इत्यादि पादद्वयं भाणितं तैः व्याख्यातं च तदेव। २५ १ घ-'ताम्बूलानि वैद्याः दर्शन.'१२ घ-'सची। ३ क-गतः। ४ अनुष्टुप् । ५ ग-'तैरेव पठितम्' । ६ ख-'पधं प्रस्तौति' । ७ ग-'तत् किं ना.'।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy