SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २१६ चतुर्विंशतिप्रबन्धे [ २४ वस्तुपाल तानि समभोजन - वसन - भोग- वाहनानि श्रीतेजःपालस्य सहचारिणी - छायावत् समजीवितमरणत्वेन स्थितानि । तद्बलेन सैन्यबलेन स्वभुजाबलेन च सर्व जीयते । 1 इतश्व 'महीतटा' ख्यदेशे 'गोधा (घरा) ' नाम नगरं वर्तते यंत्र ५ ततत्कार्येषु सङ्ग्रामे मृतानां राजपुत्राणां एकोत्तरशतसङ्ख्यानि स्वयं तु लिङ्गानि उदभूवन् । तत्र घूघुलो नाम मण्डलीकः । स 'गुर्जर 'धरासमागन्तुकसार्थान् गृह्णाति । राणश्रीवीरधवलस्याज्ञां न मन्यते । तस्मै मन्त्रिभ्यां वस्तुपाल- तेजःपालाभ्यां भट्टः प्रेषितः । अस्मत्प्रभोराज्ञां मन्यस्व, अन्यथा साङ्गण चामुण्डराजादीनां १० मध्ये मिल, इति कथापितम् । तच्छ्रवणात् क्रुद्धेन तेन तेनैव भट्टेन सह स्वभट्टः प्रस्थापितः । तेनागत्य राजश्रीवीरधवलाय कज्जलगृह शाटिका चेति द्वयं दत्तम् । उक्तं च--ममान्तःपुरं सर्वोऽपि राजलोक इति नः प्रभुणा ख्यापितमस्ति । राणेन स भट्टः सत्कृत्य प्रहित: गतः स्वस्थानम् । राणेन भाषिताः सर्वे निजभटाः । उक्तं च१५ घूघुलनिग्रहाय बीटक को ग्रहीष्यति ? । कोऽपि नाद्रियते । तदा तेजः पालेन गृहीतम् । चलितः प्रोढसैन्यपरिच्छदः । गतस्तद्देशादर्वाग्भागे । कियत्यामपि मुवि स्थित्वा सैन्यं कियदपि स्वल्पमये प्रास्थापयत् । स्वयं महति मेलापके गुप्तस्तस्थौ । अल्पन सैन्येना मे गत्वा 'गोध्रा 'गोकुलानि बालितानि । गोपालाः शरैस्ताडिताः । २० तैरन्त'र्गेधिकं' पूत्कृतम् - गात्रो हियन्ते वैश्चित् । क्षात्रं धर्मं पुरस्कृत्य ततो धावत धावत । इति शब्दे श्रुते घूघुलां विचिन्तयतिनवीनमिदम् | केनामपिमागत्य गावो हियन्ते ? | वृत्तिच्छेदविधौ द्विजातिमरणे स्वामिग्रहे गोग्रहे सम्प्राप्ते शरणे कलत्रहरणे मित्रापदां वारणे । १ ग-'गोधिरा'। २ 'यत्र' इत्यारभ्य 'उद्भूवन् पर्यन्तः पाठो नास्ति ग-पुस्तके | ३ ख-घ-'स्वे सर्वे । घूघूल० ' । ४ ख - 'गोकुलानि । ५ ग 'ध्यचिन्तयत्' । ६ 'पादर' इति भाषायाम् ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy