SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ प्रबन्धक शेत्यपराह्नये भर्तत्राणपरायणैकमनसा येषां न शस्त्रग्रह - । स्तानालोक्य विलोकितुं मृगयते सूर्योऽपि सूर्यान्तरम् ॥१॥ इति वदन्नेव ससेनस्तुरङ्गमारूढो गतोऽनुपदं गोइर्तॄणाम् । गोइतीरोऽपि घूघुलाय दर्शनं ददते शरान् सन्दधते । न च स्थित्वा युध्यन्ते । इत्येवं खेदयद्भिस्तैस्तावन्नीतो घूघुलः यावन्मन्त्रि। णो महति वृन्दे प्रविष्टः । ततो ज्ञातमीदृशं छभेदं मन्त्रिणः । भवतु तावत्, घूघुलोऽस्मि । निजाः सुभटाः समराय प्रेरिताः । स्वयं सविशेषमभियोगं दधौ । ततो लग्नः संहर्तुम् । मन्त्रिपूतनाऽपि डुढौके । । चिरं रणरसभरोऽभूत् । भग्नं घूघुलेन मन्त्रिकटकं कान्दिशीक " दिशो दिशं गच्छति । तदा मन्त्रितेजःपालेन स्थिरं अश्व- १० स्थितेन तटस्थाः सप्तकुलीनाः शुद्धराजपुत्र ( भाषिता: अरिस्तावद् बली । आत्मीयं तु भग्नं सकलं बैलम् । नष्टानामस्माकं का गतिः । । किं यशः ? | यशो बिना जीवितव्यमपि नास्त्येव । तस्मात् कुर्मः समुचितम् । तैरपि सप्तभिस्तदूवचोऽभिमतम् । व्याघुटिताऽष्टौ घ्नन्ति नाराचादिभिः परसेनाम् । तावन्मात्रं स्ववृन्दं सङ्घटितं दृष्ट्वा अपरे ऽपि १५ सत्वं धृत्वा वलिताः । तदा तेजःपाल एकत्र निजांसेऽम्बिकादेवीं अपरत्र कपर्दियक्षं पश्यति । अतो जयं निश्चित्य 'प्रहरंस्ताबद् ययौ यावद् घूघुला । गत्वा भाषितः - मण्डलिक ! येनास्मन्नाथाय कज्जलगृहादि प्रहीयते तद् भुजबलं दर्शय । घूघुलोऽपि प्रत्याहइदं तद्भुजबलं पश्य । इत्युक्त्वा निबिडं युयुधे । द्वन्द्वयुद्धं मन्त्रि- २० मण्डलीकयोः सञ्जातम् । अथ मन्त्री सहसा दैवतबलभुजाबलाभ्यां तमश्वादपीपतत् । जीवन्तं बद्ध्वा काष्ठपञ्जरेऽचिक्षिपत् । स्वसेनान्तर्निनाय । स्वयं बहुपरिच्छदो 'गोधा' नगरं प्रविवेश । अष्टादश कोटी म्नां कोश, अश्वसहस्राणि चत्वारि, मूटकं शुद्धमुक्ताफलानी, प्रबन्धः" ] २१७ , १ शार्दूल० । २ ख-घ -' जातोऽनुपदी गो० । ३ ग 'मन्त्रिकटकेनापि । - 'दिशोर्दिशं' । ५ 'बलं' इमधिको ग-पाठः । ६ ख घ - ' प्रसरं । घ - 'स्व सैन्यान्त ० ' । चतुर्विंश•ि २८ ७
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy