SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे [ २४ श्रीवस्तुपाल " कण्ठीरवे तु दृष्टे कुण्डाः सर्वे वन्याः । अन्यच्च - प्रभो ! अस्मदीपसैन्ये 'डोडीया' वंशीयो जेडुलः 'चौलुक्यः' सोमवर्मा 'गुलकुल्यः' क्षेत्रवर्माsस्ति | देवस्तु किं वर्ण्यते कल्यर्जुनः ? । एवं नातीसु बर्तमानासु द्वाःस्थ एस्य व्यजिज्ञपद् राणकम् - देव! पुरुष एको ५ द्वारि वोऽस्ति कस्तस्यादेश: ? । संज्ञया राणकस्तममोचयत् । मध्यममागत्य स उवाच --- देव ! सामन्तपाला - ऽनन्तपाल-त्रिलोकसिंहैस्त्यक्तैर्भीमसिंहमाथितैः कयापितमस्ति —देव ! त्रिभिर्लक्षैर्ये भटास्त्वया स्थापिता भवन्ति तैरात्मानं सम्यग् रक्षः । प्रातः कुमार्या आरेण्यां (?) त्वामेव प्रथमतममेष्यामः । इति श्रुत्वा १० हृष्टेन राणेन ससत्कारं स प्रैषि । कथापितं च-- एते वयमागता एव प्रातर्भवद्भिरपि ढोक्यम् । सर्वेषामपि तत्रैव ज्ञास्यते भुज सौष्ठवम् । गतः स तत्र । प्रातर्मिलितं च बलद्वयम् । वादितानि रणत्र्याणि । अङ्गेषु मटानां वर्माणि न ममुः । दत्तानि दानानि । तैस्तु त्रिभिर्मारवैरात्मीयं वर्षलभ्यं द्रव्यलक्षत्रयं भीमसिंहात् सो १५ लात्वार्थिभ्यो ददे । स्वयमश्वारूढाः । प्रवर्तन्ते प्रहाराः । उत्थितमान्ध्यं शस्त्रैः । पतन्ति शराः कृतान्तदूताभाः । आरूढं प्रहरमात्रमहः । सावधानो वीरधवलः । दत्तावधाना मन्त्रयादयस्तद्रक्षकाः । अत्रान्तरे आगतास्ते त्रयो मरुवीराः । भाषितः स्वमुखेन तैरधवलः - अयं देवः इमे वयम् सावधानीभूय रक्षात्मानम्, २० वयोधा अपि त्वां रक्षन्तु । वीरधवलेनाप्युक्तम्-किमत्र विकत्थध्वे क्रिययैव दो: स्थाम प्रकाश्यताम् । एवमुक्तिप्रत्युक्तौ लग्नं युद्धम् । यत्नपरेषु तटस्थेषु रक्षत्स्वपि तैर्भल्लत्रयं वीरधवलस्य भाले गितम् । एवं त्वां हन्मः परं एकं तब बीटकं तदा भक्षितमस्माभिरिति वदद्भिस्तैरेव श्रीवीरधवलस्य तटस्थाः प्रहरणैः पातिताः । २५ तेऽपि त्रयो मारवाः ब्रेणशतजर्जराङ्गाः सञ्जाताः । राजवरिधवलः I ૨૪ १ म 'लिङ्गितम् ' । २ क- ख - ' बातजर्जराः ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy