SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्ध कोशेत्यपराह्नये 1 तम् । श्रीभीमसिंह प्रतीहारेण भेटितास्ते । उक्तो वीरधवलकृतः कार्पण्यव्यवहारः । तुष्टो भीमसिंहः । कृतं तदिष्टवृत्तिद्वैगुण्यम् । तैचोक्तम् - देव ! शीघ्रमेव कथापय वरिधवलाय अस्मद्बलेन, यथा-यदि क्षत्रियोऽसि तदा शीघ्रं युद्धायां गच्छेः; अन्यथा अस्मदीयो भूत्वा जीवेः । प्रेषितो भीमसिंहेन भट्टः । उक्तः समेत्य वीरधवलस्तत् । एवं श्रुत्वा वरिधवलः ससैन्यश्चलितः । भहं पुरः प्राहैषीत् । 'पञ्चमीमा 'ग्रे युद्धमावयोः । तत्र क्षेत्रं कारयन्नस्मि । शीघ्रमागच्छेरित्याद्याख्यापयत् । सोऽपि तत्र ग्रामे समेतः सैन्येन सबलः । सङ्घटिते सैन्यद्वयम् । वर्तन्तं भटानां सिंहनादाः । नृत्यन्ति पात्राणि । दीयन्ते धनानि । पूज्यन्ते शस्त्राणि । बध्यन्ते १० महावीराणां टोडराणि । त्रिदिनान्ते युद्धं प्रतिष्ठितम् । उत्कण्ठिता "योधाः । ' नेदीयानिह बाहूना - माहवो हि महामहः ' । सङ्ग्रामदिनादर्वाग् मन्त्रिवस्तुपाल - तेजःपालाभ्यां स्वामी विज्ञप्तः देव ! यो मारवाः सुभटास्त्वया न सङ्गृहीतास्ते परबले मिलिताः । तद्बलेन भीमसिंहों निर्भीर्गर्जति । इति अवधार्यम् । चरैरपि १५ निवेदितमेतन्नौ | राणकेनोक्तम्- यदस्ति तदस्तु किं भयम् ? | 'जयो वा मृत्युर्वा युधि भुजभृतां कः परिभवः ?' । मन्त्रिणा ज्यायसोक्तम्- स्वामिन् ! कार्मुककरे देवे के परे परोक्षा अपि ? | यदुक्तम् 1 : 2 - काल : केलिमलङ्करोतु करिणः क्रीडन्तु कान्तासखाः " कासारे बत कासराः सरभसं गर्जत्विह स्वेच्छया । अभ्यस्यन्तु मयोज्झिताश्च हरिणा भूयोऽपि झम्पागतिं कान्तारान्तरसञ्चरव्यसनवान् यावन्न कण्ठीरवः ॥ १ ॥ २१३ २० Y , १ घ- 'मटम्' । २ घ - 'प्रतीहारः भेटितः स उक्त' । ३ घ 'पतेः । " एवं श्रुत्वा' इत्यधिको ग-पाठः । ५ घ - 'ग्रामामा मे' । ६ • पूज्यन्ते • टोडराणि इत्यधिकः पाठो ग-पुस्तके वर्तते । ७ ग-योद्धाः । 'साका (कासा) रे कनकासरः । १० शार्दूल० 1 • मरुभूमिजाताः । ९ख
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy