SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे [ २४ औ स्तुपाल ' इति श्रुत्वा सर्वेऽपि चमत्कृता राजन्यकाः । अहो प्रपचेनानेनास्मान् वचयित्वा निर्यासे तत्त्वमेवोक्तम् । पुनः सविशेषं ददुः, 'स्वामिभक्तत्वात् । तदा 'भद्रेश्वर' वेलाकूले भीमसिंहो नाम प्रती - हारस्तिष्ठति । स आत्मबली कस्याप्याज्ञां न मन्यते धनी च । तस्मै ५ वीरधवलो राजा आदेशमदीदपत् - सेवको भव । सोऽपि प्रत्यदीदपत् - सेवको भव । यद् दीयते तलभ्यते इति न्यायः । वरिधवलस्तद्विग्रहाय ' गुर्जर' धराराजपुत्रान मेलयत् हुसैन्यं च । भीमसिंहोऽपि बलेन प्रबलः । उभयपक्षेऽपि बलवत्ता । २११ अत्रान्तरे 'जावालि' पुरे 'चाहमान' कुलतिलकः श्रीअवराज१० शाखीयः केतुपुत्रसमरसिंहनन्दनः श्री उदयसिंहो नाम राजकुलो राज्यं भुनक्ति । तस्य दायादास्त्रयः सहोदराः सामन्तपालाऽनन्तपाल - त्रिलोक सिंहनामानो दाताराः शूराः तद्दत्तप्रासेन तृप्तिमदधतो 'धवलक्क 'मागत्य श्रीवीरधवलं द्वास्थेनावभाणनू -- देव ! वयं अमुकवंश्यास्त्रयः क्षत्रियाः सेवानिरा आगताः स्मः । १५ यद्यादेशः स्यात् तदा आगच्छामः । राणकेनाहूतास्ते । तेजआकृति - श्रमादिभिः शोभनाः । रुचितास्ते तस्य । परं पृष्टाःको प्रासो नः कल्पते । ते प्रोचुः - देव ! प्रतिपुरुष 'लूणसा'पुरीयद्रम्मायां लक्षं लक्षं ग्रासः । राणकेनोक्तम्- इयता धनेन शतानि भटानां सङ्गच्छन्ते । किमधिकं यूयं करिष्यथ ? । न २० दास्यामीयत् । इति कथयित्वा ते बीटकदानपूर्व विसृष्टाः । तदा मन्त्रिवस्तुपाल - तेजःपालाभ्यां विज्ञप्तम् - स्वामिन् । न एते विमु यन्ते । पुरुषसङ्ग्रहाद् धनं न बहु मन्तव्यम् | बाजि - वारण-लोहानां, काष्ठ- पाषाण - वाससाम् । नारी- पुरुष - तोयानां, अन्तरं महदन्तरम् ॥ १ ॥ २५ एवं विज्ञतमपि राणकेन नावधारितम् । मुक्ता एव ते गताः प्रति १ इति श्रुत्वा' इत्यधिको ग-पाठः । २ 'स्वामिभक्तत्वात्' इत्यधिको ग-पाठः । ३ घ - 'प्रस्यादीवपत्' । 'ग' मुध्यन्ते' | ५ अनुष्टुप् । ५
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy