SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे [ २२ मरल श्रावक I सब आवासितः । दिनं सर्व स्नात्र चैत्यवन्दना - दान-पूजा भोजनादीनि खैरं ववृतिरे । रात्रौ सुखं स्थितम् । प्रातः पुरो गमनाय संनह्याचलत् सङ्घः । यावदग्रयानं गिरिमुखसङ्कटपथेन चलितुं प्रवृत्तं तावता कश्चिदेको मषीश्यामो व्यात्तवक्त्रो नरसिंहवपुरट्टहासी बहुगव्यूतो दंष्ट्राकरालास्यो नखरैर्लोकं दारयितुं प्रववृते । भक्षयामि भक्षयामि च ऊँचे । तद् दृष्ट्वा भीतो लोकः पश्चानिवृत्य गच्छति । तद् 'राजपुत्रैर्ज्ञातम् । तैर्गत्वा स कालरूपः प्रबभाषे — कस्त्वम् ? कथं जनमुपद्रवसि ? । देवो वा दैत्यो वा राक्षसो वा येन तन्नाम्ना पूजयामः । स कालमूर्तिर्वदति - किं रे १० बाढं वदथ । यदि पुरः पदमेकं वजिष्यथ तदा सर्वान् एकैकशवविष्याम्येव । इति गदति सति तस्मिन् सङ्घरक्षपाल हेन्यघुट्य रत्नो विज्ञप्तः - देव ! एवमेवं वृत्तान्तः । पुरो गन्तुं न लभ्यते, अभाग्यात् । एवं दंष्ट्रा चर्विता लोका: पुरः पतिताः “प्रेक्ष्यन्ताम् । तदाकर्ण्य कर्णकटुकं विषण्णो रत्नः । क उपायः ? । का गतिः ! | १५ का मतिः ? इति कलकलितः सङ्घः । विशेषतः स्त्रीजनः । स्थाने स्थाने वृन्दशो वार्ताः । केचिद् वदन्ति -- पश्चान्निवृत्य गम्यते । अयं सर्व भक्षयिष्यत्येव । जीवन्नरो भद्रशतानि पश्यतीति । अपरे त्वाहु:-- म्रियते चेद् म्रियताम्, गम्यते पुरः, नेमिरेव शरणम् । केचिद् द्रुमलतान्तरितास्तस्थुः । अन्ये ज्योतिषमपश्यन् । इतरे सङ्घप्रस्थान - २० मुहूर्त दातारमनिन्दिषुः । इत्येवं विषमे वर्तमाने सङ्घपतिरत्नेम भट्टाः प्रभाषिताः -गत्वा पृच्छत तं घोरं नरं त्वं कथं प्रसीदसि, येन तत् कुर्मः पुरो व्रजामः । गता भट्टाः । भाषितं रत्नवचनं तदग्रे । तेनोक्तम्- - अहमेतस्या गिरिभुवोऽधिष्ठाता । एकं सङ्घप्रधानमानुषं भक्षयामि ततस्तृप्यामि; अन्येषां नोपद्रवामि; प्रतिज्ञां I * ५ १ क- ख- 'उक्त' । २ 'तद् दृष्ट्वा' इत्यधिको ग-पाठः । ३ 'रजपूत' इति भाषायाम् । 'तमाम्ना' इत्यधिको ग-पाठः । ५ ग 'चर्वयिष्या०' । ६ ग - 'भटै ० ' । " एवं तद्दष्ट्रा' । " ग- 'प्रेक्ष०' । ●
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy