SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्धे [२२ श्रीरत्नश्रावकपूजाकोटिसमं स्तोत्रं, स्तोत्रकोटिसमो जपः । जपकोटिसमं ध्यानं, ध्यानकोटिसमो लयः ॥३॥ इदं सामान्यतः सर्वजिनसेवाफलम् । 'शत्रुञ्जये' तु सविशेष तदेव, असङ्ख्यानां यतीनां सिद्धत्वेन सिद्धक्षेत्रत्वात् । ५ धूत्रे पक्खोवासो, मासक्खवणं कपूरधूवंमि । कत्तिअमासक्खवणं, साहू पडिलाभिए लहइ ॥१॥ इति वचनात् । 'शत्रुञ्जया'दपि रैवत' सेवा महाफला । 'रैवतो' हि 'शत्रुञ्जयैकदेशत्वात् ‘शत्रुञ्जय' एव, श्रीनेमिकल्याणकत्रय भावादतिशायितमप्रभावश्च । नेमिनाथस्य माहात्म्यं मिथ्यादृशोऽपि १० प्रभासपुराणे एवं प्रवदन्तः श्रूयन्ते--- पद्मासनसमासीनः श्याममूर्तिदिगम्बरः । नेमिनाथः शिवेल्याख्यो, नाम चक्रेऽस्य वामनः॥१॥ वामनावतारे हि वामनेन रैवते' नेमिनाथाने बलिबन्धसाम •र्थ तपस्तेपे इति तत्र कथा । १५ कलिकाले महाघोरे, सर्वकल्मषनाशनः । दर्शनात् स्पर्शनाद् देवि !, कोटियज्ञफलप्रदः ॥२॥ ईश्वरोक्तमिदं प्रभासपुराणे एवम्, तस्माद् येन नेमिनाथो वन्दितो • रैवत'गिरिमारुह्य तेन किल परमपदं श्रद्धालुना गृहीतमेवेति तत्त्व म् । इत्येतां देशनां श्रुत्वा रत्नः श्रावक उत्थाय गुरोरने प्रतिज्ञा २० चके-- मया ससङ्घन यदा ‘रैवते' नेमिः प्रणतो भविष्यति, तदा द्वितीया विकृतिम्रहीतव्या । तदैव एकभक्तं भोक्तव्यम् । तावन्तं च कालं यावद् ध्रुवं भूमिशय्या-ब्रह्मचर्ये धार्ये । वरं प्राणांस्त्यजामि, परं नेमिनाथं नमाम्येवेति । ततः स्वगृहमायातो राजा १ घ-'गुणो जपः' । ६ अनुष्टुप । ३ छाया-धूप पक्षोपवासो मासक्षपणं कर्पूरधूपे । ___ कार्तिकमासक्षपणं साधुः प्रतिलाभितो लभते ॥ ४ आर्या । ५-६ अनुष्टुप् । ७ क-रैवतं'।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy