SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ प्रबन्धकोशेत्यपराह्वये [ २२ ] || अथ रत्नश्रावकप्रबन्धः || उत्तरस्यां दिशि 'काश्मीरेषु' देशेषु 'नवहुछ' नाम महर्द्धिमत् पत्तनम् । तत्र विक्रमाक्रान्तभूवको नवहंसो नाम भूपाल: । तस्य राज्ञी रूपश्रीहसितरम्भागर्वा विजयादेवीनाम्नी । तत्रैव पत्तने पूर्णचन्द्रः श्रेष्ठिराजोऽभूत् । तन्नन्दनात्रयः रत्नः, मदनः, पूर्णसिंहश्च । त्रयोऽपि जैनाः श्रीमन्तः प्रियंवदाः सात्त्विकाः प्राज्ञाः राजपूज्याः प्रारम्भसिद्धाः । रत्नस्य पत्नी पउमिणिरिति ख्याता । पुत्रस्तु कोमल इति नाम बालो वर्तते । तदा श्री नेमिनाथनिर्वाणादष्टसहस्त्री वर्षाणां व्यतीताऽस्ति । अस्मिन्नवसरेऽतिशय- १० ज्ञानी पट्टमहादेवनामा 'नबहुल' पत्तनपरिसरे समवासार्षीत् । देवैर्भूमिः शोधिता । उदकैरछोटिता । कनकपद्मं मण्डितम् । तत्र पट्टमहादेव उपविष्टः । मध्ये नगरस्य तदागमनं ज्ञापितमुधानपालन लोकाय नृपाय च । प्रथममागतो नृपः सान्तःपुरपरिच्छदः सरत्न- मदन - पूर्णसिंहः । अपरोऽपि छोकस्तथैव । श्रेष्ठिनी १५ पडमिणिरपि सैपुत्रा तत्रागता । एवं सभायां देव-दानव मानवविद्याधरादिवृन्द सुन्दरायां गुरुर्देशनां प्रारेमे --- यास्यामीति जिनालये स लभते ध्यायंश्चतुर्थ फलं प्रबन्धः ] षष्ठं चोत्थितमुद्यतोऽष्टममथो गन्तुं प्रवृत्तोऽध्वनि । श्रद्धालुर्दशमं बहिर्जिनगृहात् प्राप्तस्ततो द्वादशं मध्ये पाक्षिकमीक्षिते जिनपतौ मासोपवासं फलम् ॥ १॥ * सेयं मज्जणे पुन्न, सहस्सं च विलेवणे | सयसाहस्सिया माला, अनंतं गयिवाइअं ॥२॥ १ घ - 'कस्मीरेषु नव०' । २ क- ख - 'महादेविनामा' | ३ ख-घ -'तत्र सपुत्रा' । ४ शार्दूल० । ५ छाया - शतं प्रमज्जने पुण्यं सहस्त्रं च विलेपने । शतसाहसिका मालाऽनन्तं गीतवादितम् ॥ ६ अनुष्टुप् । १९१ २०
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy