SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्धे [१ श्रीभद्रबाहुवराह गतः पुनर्दिजर्वेषं जग्राह । व्रतावस्थाऽधीतशास्त्रार्थज्ञतया वाराहसंहितादिनवीनशास्त्र. रचनायां प्रजगल्भे, लोकेषु च जगाद- अहं बाल्ये लममभ्यस्यामि स्म । तद्विचार एव लीनस्तिष्ठामि स्म । एकदा प्रतिष्ठानाद् बहिः 'शिलायामेकस्यां लग्नं मण्डयामि स्म । सायममृष्ट एव तस्मिन् स्वस्थानमागत्य स्वपिमि स्म । सुप्तोऽहं तल्लमममृष्टं स्मरामि स्म । ततो माष्टुं तत्र यामि स्म । तत्र लग्नाधिष्ठिते शिलातले पश्चानन उपविष्टोऽभूत् , तथापि तदुदरदेशे करं निक्षिप्य मया तल्लनं मृष्टम् ; तावता पञ्चाननः साक्षाद् भास्कर एवाभूत् । तेनाहं भाषितः-- १० वत्स ! तव ईढानश्चयतया लग्नग्रहभक्त्या च बाढं तुष्टोऽस्मि, रविरहम् , वरं वृणीष्व । अथ मयोक्तम्-स्वामिन् ! यदि प्रसन्नोऽसि तदा निजविमाने चिरं मामवस्थाप्य सकलमपि ज्योतिश्चक्रं मे दर्शय । अथाहं मिह (हि)रेण चिरं स्वविमानस्थः खे भ्रॉमितोऽस्मि । सूर्यसमितामृतसन्तर्पितेन च मया क्षुत्तृषादिदुःखं न १५ किश्चिदनुभूतम् । कृतकृत्यश्च सूर्यमापृच्छय ज्ञानेन च जगदप कर्तुं महीलोकं भ्रमन्नस्मि । अहं वराहमिह(हि)र इति वाच्यः । इत्यादि स्वैरं प्रख्यापयामास । सम्भाव्यत्वात् लोके पूजां परमामाप्य 'प्रतिष्ठान'पुरे शत्रुजितं भूपालं कलाकलापेन रञ्जयामास । तेन निजपुरोहितः कृतः । यतः२०. गौरवाय गुणा एव, न तु ज्ञातेयडम्बरः । वानेयं गृह्यते पुष्प-मङ्गजस्त्यज्यते मलः ॥ १॥ अथ श्वेताम्बरान् निन्दति--किममी वराकाः काका विदान्त ? मक्षिकावद् भिणिहणायमानाः कारास्था इव कुचेलाः कालं क्षपयन्ति, क्षपयन्तु । तच्छृण्वतां श्रावकाणां शिरःशूलमुत्पेदे । "धिगिद. क-'विशालायामेक०१२ क-ख- 'दृढतथा लम' ।। ग-'मवस्थापय' । - सूर्येण । ५ क-ख-घ- भ्रमितोऽस्मि ' । ६ क-ख- 'माप'। ७ वने जातम् । ८ अनुष्टुप् । ९क-ख-'वदान्त' । १. क-न- 'विगरमाक' ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy