SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराह्नये चतुर्दशपूर्वी समागतः । भद्रबाहु-वराहौ तदेशनां शुश्रुवतुः । यथाभोगा भङ्गुरवृत्तयो बहुविधास्तैरेव चायं भव स्तत्त्वस्येह कृते परिभ्रमत रे लोकाः । सृ ( कृ ?)तं चेष्टितैः । आशापाशशतोपशान्तिविशदं चेतः समाधीयतां ३ काप्यात्यन्तिक सौख्यधामनि यदि श्रद्धेयमस्मद्वचः ॥ १ ॥ * एतच्छ्रवणमात्रत एव प्रतिबुद्धौ गृहं गत्वा तौ मन्त्रयेते स्म - जम्म कथं वृथा नीयते । तावद् भोगसामग्री नास्ति, तर्हि योगः साध्यते । अग्रे गीतं सरसकवयः पार्श्वतो दाक्षिणात्याः पृष्ठे लीलावलयणितं चामरग्राहिणीनाम् । यद्यत्येवं कुरु भवरसास्वादने लम्पटत्वं नो चेश्वेतः ! प्रविश सहसा निर्विकल्पे समाधौ ॥ १ ॥ * इति विमृश्य द्वावपि बान्धवौ प्रवत्रजतुः । भद्रबाहुश्चतुर्दशपूर्वी षट्त्रिंशद्गुणसम्पूर्णः सूरिरासीत् । १ दशवैकालिक - २ उत्तराध्ययन- ३ दशाश्रुतस्कन्ध-४ कल्प-५ व्यवहार - ६ आवश्यक - ७ सूर्यप्रज्ञप्ति - ८ सूत्रकृत - ९ आचा- १५ राङ्ग - १० ऋषिभाषिताख्यप्रन्यदशकप्रतिबद्धदशनियुक्तिकारतया पप्रथे, भ (भा) द्रबाहवीं नाम संहिता च व्यरचयत् । तदा आर्यसम्भूतिविजयोऽपि चतुर्दशपूर्वी वर्तते । श्रीयशोभद्रसूरीणां स्वर्गगमनं जातम् । भद्रबाहुसम्भूतिविजयौ स्नेहपरौ परस्परं भव्याम्भोरुहभास्करौ विहरतो 'भरते' पृथक् पृथक् । वराहोऽपि २० विद्वानासीत्; केवलमखर्वगर्व पर्वतारूढः सूरिपदं याचते भद्रबाह्वाह्रसहोदरपार्श्वात् । भद्रबाहुना भाषितः सः वत्स ! विद्वा। नसि, क्रियावानसि परं सगर्वोऽसि सगर्वस्य सूरिपदं न दभः । एतत् सत्यमपि तस्मै न सरवदे, यतो 'गुरुवचनममलमपि महदुपजनयति श्रवणस्थितं शूलमभव्यस्य' । ततो व्रतं तत्याज । मिध्यात्वं २५ " ० १ घ-'भुव’। २ घ -'शान्त०' । ३ शार्दूल० । ४ख - 'गृहे । ५ मन्दाक्रान्ता । ६ क ख - 'स्वर्ग' । ७ घ-मपि सलिलमिव मह०' । ८ क - 'सदुप० ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy