SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः प्रवन्धकोशल्यपराये मस्माकं जीवितं येन गुर्ववज्ञा सहामहे । किं कुर्मः । अयं कलावानिति नरपतिना पूज्यते । राजभिः पूज्यते यश्च सर्वैरपि पूज्यते । भवतु, तथापि भद्रबाहुमाह्वयामस्तावत् । इति सम्मन्त्र्य तथैव चक्रुः । आगताः श्रीभद्रबाहवः । कारितः श्रावकैः संस्पर्द्धप्रवेशमहः । स्थापिता गुरवः सुस्थाने । नित्यं व्याख्यारसानास्वादयामासुः ५ सभ्याः। भद्रबाह्वागमे स वराहो बाढं मम्लौ, तथापि तेभ्यो नापकर्तुमशकदसौ । अत्रान्तरे वराहमि(हि)हरगृहे पुत्रो जातः । तज्जन्मतुष्टः प्रभूतं धनं व्ययति स्म । लोकाच्च पूजामाप्नोति स्म । पुत्रस्य वर्षशतमायुरिति तेन नरेन्द्रादिलोकापसभासमक्षं प्रख्यापितम् । १० गृहे उत्सवोदयस्तस्य | ___ एकदा सदसि वराहः प्राह स्म- अहो सहोदरोऽपि भद्रबाहुर्मे पुत्रजन्मोत्सवे नागात् इति बाह्या एते । एतदाकर्ण्य श्रावकैर्भद्रबाहुर्विज्ञप्तः- एवं एवमसौ वदन्नास्ते, गम्यतां भवद्भिरेकदा तद्गृहम, मा वृधन्मुधा क्रोधः । श्रीभद्रबाहुनाऽऽ- १५ दिष्टम्- द्वौ क्लेशौ कथं कारयध्वे ? । अयं बाल; सप्तमे दिने रात्रौ निशीथे बिडालिकया धानिष्यते । तस्मिन् मृते शोकविसर्जनायापि गन्तव्यमेव तावत् । ततः श्रावकैरूचे- तेन विप्रेणोपराजमर्भस्य समाशतमायुरुक्तम् , भवद्भिः पुनरित्यमादिष्यते, किमेतत् ! श्रीभद्रबाहुस्वामिना भणितम्- ज्ञानस्य प्रत्ययः सारम् , स चासन्न २० एवास्ते । स्थितास्तूष्णीं श्रावकाः । आगतं सप्तमं दिनम् । तत्रैव द्विप्रहरर्मात्रायां रीत्र्यां बालं स्तन्यं पाययितुं धात्र्युपविष्टा । द्वारशाखाग्रे न्यस्ताऽर्गला बालमस्तके पतिता जनान्तरसञ्चारात् । , 'ख'- 'स पूज्यते । २ क-ख 'सस्पढिप्र. '। ३ घ-' स्पर्ध ' ग. 'भद्रबाहागमे वराहो । ५ क-'भद्रबाहु में इत आरभ्य 'क्रोधः एतत्पर्यन्त नास्ति। ६ ख-भद्रबाहुना' । ७ ग. 'पुनरिद.१८ ख-'बाहुना' १९ क-ख-'माया'। १० ग-शत्रौ'। ११ ग-शाखाग्रन्यम्ता' । . .न-मम्नकमा ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy