SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १८० ५ चतुर्विंशतिप्रबन्धे [२०] ॥ अथ लक्षणसेनस्य प्रबन्धः ॥ [ २० श्रीलक्षणसेन मन्त्रिणः कुमारदेवस्य च पूर्वस्यां 'लक्षणावती' पूः । तत्र लक्षणसेनो नाम प्रतापी न्यायी नृपः । तस्य द्वितीयमित्र जीवितं प्रज्ञाविक्रमभक्तिसारो मन्त्री कुमारदेवः । विपुलं राज्यम् । अपारं सैन्यम् । अत्रान्तरे " वाराणस्यां ' गोविन्दचन्द्राख्यनृपपुत्रो जयन्त चन्द्रो राजा । तस्य विद्याधरो मन्त्री । महेच्छानां अन्नदातॄणां सत्यवादिनां च प्रथमः । एकदा जयन्तचन्द्रसभायां वार्तेयमासीद् य लक्षणावती' दुर्गं १० दुर्ग्रहम् । राजा महाचमूसमूहसम्पन्नः तां वार्तामवधार्य 'कासीपतिः प्रतिज्ञां सभासमक्ष मैग्रहीत् इतश्वलित्वाऽस्माभिर्लक्षणावती' दुर्गं ग्रहीतव्यम् ; अथ न गृह्णामि तदा यावन्ति दिनानि दुर्गतटे तिष्ठामि तावन्ति हेमलक्षाणि दण्डे गृह्णामि; अन्यथा न निवर्ते । इति सन्धां निर्माय प्रयाणढक्कामदापयत् । मिलितः समकाल १५ राजलोकः । जाता गजमयीच सृष्टि: । भूपालमालामयीव भूमिः । अश्वममिव जगत् । निर्गतं सैन्यं बहिः । अखण्डितैः प्रयः णैर्भञ्जन् परबलान्, शोषयन् सरांसि पङ्कयन् नदीः, समीकर्बन विषमाणि चूर्णयन् शिखराणि, लेखयन् शासनानि, जीवयन् साधुलोकान्, 'लक्षणावती ' प्राप्तः । दुर्गान्नातिदूरासन्ने भूभागे आवासान् दाप२० यामास । लक्षण सेनस्तु द्वाराणि पिधाय पूर्मध्ये एव तस्थौ । क्षु (क्षो) - भिता पुरी । सङ्कीर्णत्वमापन्नमन्न-पाथो-धूत-तैल-वसन - ताम्बूलादिवस्तूनाम् । स्थाने स्थाने वार्ता आर्ताः प्रवर्तन्ते । ' कासीपतिस्तु मुत्कलं परदेशं ग्रसते । सार्था एहिरेयाहिरां कुर्वन्ति सुभिक्षमक्षामम् । i 3 ४ ख १ ख- 'महोत्थानां' । २ ख-घ - 'दात्रीणां । ३ क ख 'मद्राक्षीत्' । 'ताम्बूल - दलीदलादिवस्तूनाम् । ५ क ख - 'प्रावर्तन्ते' १६ 'मोकळा' इति भाषायाम्
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy