SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः] प्रबन्धकोशेत्यपराह्वये 177 इति तावत् करे धृत्वा तस्या वेणीदण्डो 'यमुना'जलप्रवाहप्रायः कृपाणिकयाच्छिन्नः। गता सा मृगशावलोचना। वेणी करेऽस्थात् / तां वेणी पश्यंस्तां चमत्कृतचकोरचलाचलाक्षी स मुहुरस्मार्षीत् / नेत्रेन्दीवरिणी मुखाम्बुरुहिमी भ्रूवल्लिकल्लोलिनी बाहुद्वन्द्वमृणालिनी यदि पुनर्वापी भवेत् सा प्रिया / तल्लावण्यजलावगाहनजडैरङ्गैरनङ्गानल ज्वालाज्वालमुचस्त्यजेयमसमाः प्राणच्छिदो वेदनाः // 1 // ततो हतप्रारम्भ उद्वाप्पः सखेदः पू:परिसरमेल्यामात्यानाहूयावादीत्- मया एवं एवं बालिकायाः कस्याश्चिद् वेणी 'छिन्ना / 10 सा तु श्वभ्रमूलमगात् / अतो मम राज्येन न कार्यम् / इभामेव वेणी राज्यं कारयत / तेऽपि तथेति प्रतिपय पूर्बहिर्भण्डपे सोत्सव वेणी राज्यं कारयन्ति रामपादुकावत् / इतश्च सा वसुदत्तिका खिन्ना गत्वा स्वसौधेऽस्वाप्सीत् / तस्याः सख्यस्तत्कबरी छिन्नामीक्षिवा नामलदेवीमाकार्याऽदीह- 15 शत् / जागरितां पुत्री नामलदेवी वत्से ! कि.मेतत् ? तवापि परिभवपदमित्यप्राक्षीत् / तनयाऽपि यथास्थितं मात्रे आख्यत् , साऽपि नागपतये स्वपतये / क्रुद्धः सद्योऽसौ तक्षकमाकार्य कथामुक्त्वाऽऽ. दिक्षत्, यथा- गच्छ, सराष्ट्र उदयनं भस्मीकुरु / सोऽपि तदादेशादचालीत् / 'कौशाम्बी' प्रापत् / तत्परिसरे उत्सवान् दृष्ट्य 2. नररूपः कश्चित् पप्रच्छ-- किमेतदुत्सवसाम्राज्यम् ? / तत्रत्येन जनेनोक्तम्- एवं एवं राज्ञा दिव्यकन्यावेणी छिन्ना / उत्पन्नानुतापेन राज्यं तदायत्तं कृतम् / अतो वेणी राज्ञीह / राज्ञाऽत्रैव एकदेशे तपस्तप्यते / तक्षकेणोत्सवो दृष्टः / मध्ये भ्रमता राजाऽप्या , घ--वापे' / 2 शार्दूल / 3 ग-'प्रारम्भोद्वाष्पः' / ख-घ-'छिनाः' 5 क-घ-- 'किञ्चित्' / पतर्विशति. 23
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy