SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ चतुवैिशतिप्रदन्धे [ १ श्रीभद्रबाहुचरा ईड विल डि. प्येण विनीतविनयेन तजलधिपार मस्य क्रियापरस्य गुरोः समीपे विधिना सर्वमध्येतव्यम् । ततो भव्योपकाराय देशना क्लेशनाशिनी विस्ताय । तद्विधिश्चायम् - अस्खलितम्, अमिलितम्, भहीनाक्षरं सूत्रमुच्चार्यम् । अग्राम्यललितभङ्गाऽर्थः कथ्यः । ५ कायगुप्तेन परितः सभ्येषु दत्तदृष्टिना यावदर्थबोधं वक्तव्यम् । वक्तुः प्रायेण चरितैः प्रबन्धैश्व कार्यम् । तत्र श्री ऋषभादिवर्धमानान्तानां जिनानाम्, चत्र्यादीनां राज्ञाम् ऋषीणां चार्यरक्षितान्तानां वृत्तानि चरितानि उच्यन्ते । तत्पश्चात्कालभाविनां तु नराणां वृत्तानि प्रबन्धा इति । " इदानीं वयं गुरुमुखश्रुतानां विस्तीर्णानां रसाढ्यानां चतुर्विंशतेः प्रबन्धानां सङ्ग्रहं कुर्वाणाः स्म । तत्र सूरिप्रबन्धा दश, कविप्रबन्धाश्वत्वारः, राजप्रबन्धाः सप्त, राजाङ्गश्रावकप्रबन्धास्त्रयः, एवं चतुर्विं शतिः । १ भद्रबाहु - वराहयोः, २ आर्यनन्दिलक्षपणकस्य, ३ जीवदेवसूरीणाम्, ४ आर्यखपटाचार्याणाम्, ५ पादलिप्त १५ प्रभूणाम्, ६ वृद्धवादि- सिद्धसेनयोः, ७ मल्लवादिनः, ८ हरिभद्रसूरीणाम्, ९ बैप्पभट्टिसूरीणाम्, १० 'हेमसूरीणाम्, ११ श्रीहर्षक १२ हरिहरकवेः, १३ अमरचन्द्रकः, १४ दिगम्बरमदनकीर्तिकवेः, १५ सातवाहन - १६ वङ्कचूल - १७ विक्रमादित्य - १८ नागार्जुन- १९ उदयन- २० लक्षण सेन२० २१ मदनवर्मणाम्, २२ रत्न- २३ आभड - २४ वस्तुपालानां चेति । तेषु प्रथमम् 'S १० [ १ ] || भद्रबाहुवराहप्रबन्धः ॥ दक्षिणापथे ' प्रतिष्ठान' पुरे भद्रबाहु-वराहाहौ द्वौ द्विजो कुमारौ निर्धनो निराश्रयौ प्राज्ञौ वसतः । तत्र यशोभद्रो नाम १६- 'हद्द हि किल' । २ ख ग घ ' सूत्रम् ' । ३ ग घ - 'श्रीजीव०' । ४ घ 'श्रीहरिः' । ५ घ - 'श्रीबप्प ० ' । ६ घ - ' श्रीम० ' । ७ घ- 'रत्नश्रावकमाभर ० । ८ स घ 'एषु' ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy