SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रचन्चे 18 श्रीनागार्जुन [18] // अथ नागार्जुनप्रबन्धः॥ 'टुङ्क'पर्वते 'सुराष्ट्रा(ष्ट्र) भूषण शत्रुञ्जय'गिरिशिखरैकदेशरूपे राजपुत्ररणसिंहस्य भोपालनाम्नी पुत्री रूपलावण्यसम्पूर्णा पश्यतो जातानुरागस्य सेवमानस्य वासुकिनागस्य पुत्रो नागार्जुननामा जातः / स च जनकेन पुत्रस्नेहमोहितेन सर्वासां महौषधीनां फलानि मूलानि दलानि च भोजितः / तत्प्रभावन स महासिद्धिभिरलङ्कृतः। सिद्धपुरुष इति विख्यातः / पृथ्वीं विचरन् 'पृथ्वीस्थान'पत्तने सातवाहनस्य राज्ञः कलागुरुर्जातः / स च गगनगामिनीविद्या१० ध्ययनार्थ पालित्तानक'पुरे श्रीपादलिताचार्यान् सेवते / अन्यदा भोजनावसरे पागलेपबलेन तान् गगने उत्पतितान् पश्यति / 'अष्टापदा'दितीर्थानि नमस्कृत्य स्वस्थानमुपागतानां तेषां पादौ प्रक्षाल्य सप्तोत्तरशतमहौषधीनां आस्वादेन वर्णगन्धादिभिर्नामानि निश्चित्य गुरूपदेशं विनाऽपि पादलेपं कृत्वा कुर्कुटपोत इवोत्पतन्न१५ वटतटे निपतितः / व्रणजर्जरिताङ्गो गुरुभिः पृष्टः-किमेतदिति ? / तेन यथास्थिते प्रोक्ते तस्य कौशल्येन चमत्कृतचित्ता आचार्यास्तस्य शिरसि पद्महस्तं दस्था भणन्ति-- षष्टिकतन्दुलोदकेन तान्योषधानि वर्तयित्वा पादलेपं कृत्वा गगने गरुड इव स्वैरं ब्रेज / ततस्तां सिद्धि प्राप्य परितुष्टोऽसौ ननत / पुनरपि कदाचिद् गुरुमुखादा२० कर्णयति यथा रससिद्धि विना दानेच्छासिद्धिर्न भवति / ततो रसं परिकर्मयितुं प्रवृत्तः स्वेदन-मर्दन-आरण-मारणानि चक्रे / रसस्तु स्थैर्य न बध्नाति / ततस्तु गुरून् पप्रच्छ--कथं रसं(सः) स्थैर्यमाबध्नाति ? / गुरवः प्राहुः, यथा दुष्टदैवतनिर्दलनसमर्थायां श्रीपार्श्व 1 ख-दुः ' / 2 घ-गामिविद्या०' / 3 क-'भणितम्' / / ख-'पादप्रलेपं'। 5 क- 'बजेः' / 6 स-प्रतिष्टोऽसो' /
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy