SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ 173 प्रबन्धः प्रबन्धकोशेत्यपरालये नाथस्य दृशि साध्यमानः सर्वलक्षणोपलक्षितया महासत्या योषिता च मृद्यमानो रसः स्थिरीभूय कोटिवेधी भवति / तच्छत्वा स पार्श्वनाथप्रतिमां समहिमामन्येषयितुमारेभे / परं तादृशीं न कापि पश्यति / इतश्च नागार्जुनेन स्वपिता वासुकिात्वा प्रत्यक्षीकृतः, 5 पृष्टश्च- श्रीपार्श्वनाथस्य दिव्यकलानुभावां प्रतिमां कथय / तेनावोचि- 'द्वारवत्यां' समुद्रविजयदशाण श्रीनेमिनाथमुखान्महातिशयसम्पन्ना ज्ञात्वा श्रीपार्श्वस्य प्रतिमा प्रासादे स्थापयित्वा पूजिता / 'द्वारवत्या' दाहान्तरं समुद्रेण प्लाविता सा प्रतिमा तथैव समुद्रमध्ये स्थिता। कालेन 'कान्ती'वासिनो धनपतिनामकस्य 10 सांयात्रिकस्य यानपात्रं देवताऽतिशयात् स्खलितम् / अत्र जिनबिम्बं तिष्ठतीत्यदृष्टवाचा निश्चित्य नाविकांस्तत्र निक्षिप्य सप्तभिरामसूत्रतन्तुभिर्बयोद्धृता प्रतिमा निजनगर्यां नीत्वा प्रासादे स्थापिता | चिन्तितातिरिक्तलाभप्रहृष्टेन पूज्यते स्म प्रतिदिनम् / ततः सर्वातिशायि तद् बिम्बं ज्ञात्वा नागार्जुनो रससिद्धिनिमित्तम- 15 पहृत्य 'सेडी'नद्यास्तटेऽतिष्ठिपत् / तस्य पुरतो रससाधनार्थं सातवाहनस्य राज्ञश्चन्द्रलेखाभिवां महामती देवीं 'सिद्धयन्तरसान्निध्येनानाय्य प्रतिनिशं रसमर्दनं कारयति / एवं तत्र भूयो भूयो गलागतेन तया वान्यव इति प्रतिपेदेऽसौ / सा तेषामौषधानां मर्दन कारणं पृच्छति / स च कोटीवेवस्य रसस्य वृत्तान्तं सत्यं 20 कथयति / अन्यदा द्वयोनिजपुत्रयोस्तया निवेदितम् , यथा- 'सेडी'नदीतटे नागार्जुनस्य रससिद्धिर्भविष्यति / तौ रसलुब्धौ निजराज्यं मुक्त्वा नागार्जुनान्तिकमागतौ / कैतवेन तं रसं जिघृक्षु प्रच्छन्नवेषौ यत्र नागार्जुनो जेमति तस्य गृहस्य परिसरे भ्रमतः / 1 परं पश्यति' इत्यधिको ग-पाठः / 2 घ-सव्यन्तर० /
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy