SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः] प्रबन्धकोशेस्यपराये दर्शय रामदेवचरित्रम् / ततो विप्रः स्थानमेकं दर्शयित्वा भूपालमालपत्- इदं भूखण्डं खानयत / ततः खानयति क्षमापालः / खनयत्सु खनकेषु प्रथमं हेमकलशः / ततो हैमी मण्डपिका प्रकटीबभूव / उपरितनं रजोऽपसारितम् / पश्चानुपूर्व्या प्रथमद्वितीयतृतीयक्षणा हैमा दृष्टा महीभुजा। चतुर्थे क्षणे नीरजे कृते 'विपुला 5 उपानदेका हैमसूत्रकृता ज्योति लजटामाणिक्यखचिता दृष्टा / भपेन विस्मितेन च गृहीत्वा हृदि शिरसि निहिता / अहो मान्या रत्नजातिरियम् ! / ततो विप्रेण विज्ञप्तम्- देव! चर्मकारपल्या उपानदेषा न स्पष्टमर्हति तव विष्टपपतेः / विक्रमेणोक्तम्- सा चर्मकार्यपि धन्या यस्या ईगुपानत् / वद केयं कथा ? / ततो 10 विप्रो ब्रूते- विश्वेश्वर ! श्रीरामे राज्यं कुर्वति सति अत्र चर्मकारसदनादि आसन् / इदमेकस्य चर्मकारस्य सदनम् / तस्य पत्नी लाडबहुला / अतो गर्वमुद्वहति / विनयं न करोति / तेतः सा तेन हक्किता हता च / याहि रे दुःखं गृहीत्वा इत्युक्ता च / ततो रुष्टाऽस्यामेकस्यां उपानहि तटपतितायां अपरिहितायां द्वितीयस्यां 15 तु परिहितायां निजतातस्य सदनं जगाम | गस्वा पत्युः कठोरभाषितं पित्रे बमाण / पित्रा द्विनद्वयं स्थापिता आवर्जिता च / अथोक्ता- वत्से कुलस्त्रियाः पतिरेव शरणम् / तत्रैव याहि / सोचे- न यामि, मानक्षयात् / द्विस्त्रिरुक्तिप्रत्युक्तयो भणिताः / पितृभ्यां भाणिताऽपि यदा पतिगृहं न याति तदा पित्रा भाषितम्- 20 वत्से ! अहमेवं मन्ये-- यदा श्रीरामः सीता-लक्ष्मणसहितः स्वयमत्रागल्यानुनीय स्वां श्वशुरकुले प्रहिता तदा तत्र गन्त्री त्वम् / सायलीकाभिमानिनी प्रवदति- इदमित्थमेव; राम एवागते यामि तत्र, नापरथा / इमं वृत्तान्तं चरत्वनियुक्ताः प्रच्छन्नाः सुरा गत्वा रामं व्यजिज्ञपन्- देव! अयं वृत्तान्तश्चर्मकारपुत्र्याः / ततो देवः 25 घ-'यथः'। 'बहु लाडकी घ-'उपरि हेम.'। 2 ख-घ-विपुले उपा / इति भाषायाम् / ५ग-अत: कारणे सा'।. .
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy