SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्धे [१७मीविक्रमादित्यगमत् / यदीदृग् तत्समकः, आधिक्ये तु का कथेति हसितम् / विक्रमसेनेन गर्वस्त्यक्तः // ततो विक्रमसेनः पुरोधसमप्राक्षीत्- यदि किल एताः काष्ठपुत्रिका मम पितरमद्भुतगुणं वर्णयन्ति तर्हि स एव लोके तत्प्रथमतयोत्तमत्वेनावर्णोि भवि यति / ततः प्राक् तु न कोऽपि ताहगुत्तमोऽभूदिति ब्रूमः / पुरोधाः प्राह- राजन् ! अनादिरियं रत्नगर्भा / अनादिश्चतुर्युगी / युगे युगे नररत्नानि जायन्ते / अहमेव प्रधानमिति गर्वो न हितकारी, न च निर्वहते। यतस्त्वपितुर्विक्र मादित्यस्य मनस्यकदा एवमभूद् यथा रामेण व्यवहृत्य लोकः 10 सुखीकृतः तथाऽहमपि करिष्ये / ततो रामायणं व्याख्यापितम् / तंत्र यथा रामस्य दानं आगारस्थापनं वर्णाश्रमव्यवस्था गुरुभक्तिस्तथा सर्वमारब्धम् / ततोऽभिनवो राम' इत्यात्मानं पाठयति / तद् दृष्ट्वा मन्त्रिभिश्चिन्त्यो स्म- अनुचितकारी अस्मत्प्रभुर्यो गर्वादात्मानं तद्वन्मन्यते / अयं गर्वोऽस्योपायेनोत्तारयितव्यः प्रस्तावे / ___ इतश्च त्वपित्रा विक्रमादित्येन पृष्टम् - लोके स कोऽपि क्वाप्यास्ते योऽनुतपूर्व रामस्याचरणं ज्ञापयति नः ? / तत एकेन ज्यायसा मन्त्रिणाऽपरमन्त्रिप्रेरितेन कथितम्- राजेन्द्र ! 'कोशला'यां विप्र एको वृद्धोऽस्ति / स काश्चित् श्रीरामस्य वार्ताः पार म्पर्यायाताः सम्यग् "विवेद / आहूय पृच्छयते / राज्ञा आहूतः सः / 20 सगौरवमायातः पूजितः पृष्टः-विप्र! वद काञ्चिद् रामकथा नव्याम् / विप्रो बाण --- पृथ्वीनाथ ! यदि 'कोशला'यामागच्छसि तदा रामस्य कमपि प्रबन्धं साक्षाद् दर्शयामि / इह स्थितस्तु वक्तुं न पारयामि / तदा राज्ञा राज्यभारो मन्त्रिषु यस्तः / स्वयं महाचमू सहितो वृद्धद्विजयुक् 'अयोध्यो पशल्यां ययौ / स्कन्धावारे तस्थौ / 25 तदानीं स एव सर्वदिगीश इत्यभी: विप्रो भाषितो क्षमापालेन-- _1 क ख-घ प्रतिषु 'त्यक्तः' अस्यानन्तरं 'इति श्रीविक्रमप्रबन्धः' एतदाधिक्यम् / 2 घ-'यथा तर'। 3 ख--'तथाऽभिनयो'। 4 ख-घ-'वेद'। ५ग-पृष्टब-युद्ध ! बद।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy