SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराहये जातो धनिको दृष्टः / चिन्तितं च तेन- जनप्रवादो भविष्यति यथाऽनेन स्त्रीहेतोहतः; तर्हि ममापि मर्तु युक्तम् / इति विचिन्त्य तेनापि स्वशिरः छिन्नम् / महति वेलायां सा प्यागता / द्वावपि तदवस्था प्रेक्ष्य चिन्तितं तया- जनोऽग्रेऽपि द्वेषिणी कथयन्नस्ति, सम्प्रति पतिघ्नीमिति कथयिष्यति; तर्हि म्रियेऽहम् / इति ध्यात्वा 5 गले शस्त्रिका लगापिता / तावता यक्षेण करे धृता / मा साहसं कुरु / तयोक्तम्- द्वावपि जीवापय | यक्षेणोक्तम्- शिरसी निजनिजकबन्धे योजय / तयोत्सुकयाऽन्यान्यकबन्धयोन्य॑स्ते / तयोर्भार्याविवादो जातः / एको वदति-मदीया; द्वितीयोऽपि तथा / तर्हि कस्य सा? / राज्ञोक्तम् - यस्य कबन्धे शिरः स भर्ता, 'सर्वस्य 10 गात्रस्य शिरः प्रधानम्' इति वचनात् || कर्पूरसमुद्गकोऽपि कथामाह कुतोऽपि ग्रामात् स्वस्वकलाविदश्चत्वारः सुहृदो देशान्तरं चेलुः, एकः काष्ठसूत्रधारः, द्वितीयः स्वर्णकारः, तृतीयः शालापतिः, तुर्यो विप्रः / कापि वने रात्रावुषिताः / प्रथमयामे सूत्रधारः 15 प्राहरके स्थितः / तेन काष्ठपुत्रिका तरुणीसदृशी कृता समग्राऽपि / द्वितीयप्रहरे स्वर्णकारो यामिकः / तेनाभरणैर्विभूषिता / तृतीये शालापतिः / तेन क्षौमाणि परिचापिता / चतुर्थे विप्रेण सजीवा कृता / प्रातः सजीवां दृष्ट्वा सर्वेऽपि तजिघृक्षया मिथो विवदन्त / तर्हि कस्य सा भो विक्रमादित्यनरेन्द्र ! / सा नाम श्रुत्वा चुक्षोभ / 20 राज्ञोक्तम्- तंदयं न वच्मि तयोरकथयतोश्च तया जल्पितम्भो राजन् ! कस्य सा ? / राज्ञोक्तम्- स्वर्णकारस्य / अधुनाऽपि यः स्वर्ण चटापयति स एव भर्ता भवति // 4 // सा पप्रच्छ-- के यूयम् ! / दीपस्थेन वेतालेनोक्तम्-असौ स विक्रमादित्यः / सा हृष्टा व्यूढा च / तां गृहीत्वाऽवन्ती'मा- 25 1 इति विचिन्त्य ' एतदधिको ग पाठः / 2 क- स्व-घ-'तदहं न वेमि'।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy