SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ 164 चतुर्विशतिप्रबन्धे [17 श्रीविक्रमादित्य. राज्ञा ताम्बूलस्थगिका द्वितीयकथां पृष्टा / वेतालाऽधिष्ठानात् साऽप्याह कुत्रापि मृतभर्तृका ब्राह्मणी अभूत् / तस्या जारेण सह सुता जाता / तो रात्रौ बहिस्त्यक्तुं गता / इतश्च तत्र कोऽपि 5 शूलाक्षिप्तो जीवन्नस्ति / तस्य पादे स्खलिता / तेनोक्तम् -कः पापी दुःखिनोऽपि दुःखमुत्पादयति ? / तयोक्तम्-- किं दुःखम् ? / सोऽप्याह-देहपीडादिकम् , विशेषतो निष्पुत्रत्वं कथितम् / पुनः शूलानरेणोक्तम्-त्वमपि कथय / का त्वम् ? / निजचरितं तयोक्तम् / 'तन्निशम्य तेनाप्युक्तम्-पुरा हुतं भूनिक्षिप्त अत्रस्थं द्रव्यं त्वं 10 मदीयमादाय सुतां मया सह विवाहय / ब्राह्मणी पाह--स्वमिदानी मरिष्यसि, सुता च लध्वी; कथं पुत्रोत्पत्तिः / तेनोक्तम्-ऋतुकाले कस्यापि द्रव्यं दत्त्वा पुत्रमुत्पादयः / तया तथैव सर्व कृतम् / पुत्रो जातमात्रो राजद्वारे क्षिप्तः / राज्ञः केनाप्यर्पितः / कालेन निष्पुत्रस्य नृपस्य राज्ये स एवोपविष्टः / श्राद्धदिवसे 'गङ्गा'यां 15 पिण्डदानं कर्तुं गतः / जलाद्धस्तत्रयं निर्गतम् / स राजा विस्मितः / कस्य करस्य पिण्डं ददामि ? / तर्हि भो राजन् ! वद कस्य देयः पिण्डः ? / राज्ञोक्तम्- चौरहस्तस्य // राज्ञा स्वर्णपालंकं जल्पितम् / तदपि कथामाह---- कस्मिन्नपि ग्रामे कश्चित् कुलपुत्रः स परिणीतोऽन्यनामे, परं 20 तत्पत्नी श्वशुरगृहे नागच्छति / स स्वजनैर्निर्गुण इति हस्यते / एकदा सर्वजनप्रेरितो मित्रयुतो तत्र गतः / मार्गे यक्षस्य शिरो नामितम् / तत्प्रभावात् सादरा जाता, आगन्तुं प्रवृत्ता / यक्षभवने समीपमागते स एकाकी यक्ष नन्तुमागच्छत् / यक्षेण स्त्रीलोभेन तस्य शिरश्छेदितम् / महत्यां वेलायां मित्रमागतम् / तदवस्थो , 'अभूत्' इत्यधिको ग-पाठः / 2 तन्निशम्य' इत्यधिको ग-पादः / 3 ग-कर्तुः गतः जला.' 1 4 ग-पालन। ५घ-'गृहं नागम्छति' / 6 ख-घ-'यक्षे समीपः।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy