SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः प्रबन्धकोशेत्यपराये तत्र गतः / दासीभिदृष्टः स्वामिनीपार्श्वे नीतः / तया स्नानादि कारितः / रात्रौ तद्गृह एव स्थितः / त्वया स्वपल्या उक्तम्--- मम विक्रमादित्यो भर्ता भूयात् , किं वा यो मां चतुर्भिः शब्दैर्जागरयति / इत्युक्त्वा सुप्ता / तेन चिन्तितम्--किं चतुर्भिरपि शब्दैन जागर्ति तर्हि एनामहमेव जागरयिष्यामि / 'चत्वारः शब्दाः 5 कृताः / यदा न जागर्ति तदा पादाङ्गुष्ठश्चम्पितः / तया पादेनाहतः यत्र विक्रमादित्यः सुप्तोऽस्ति तत्र पतितः / राज्ञा पृष्टम् - किमिदम् ? / तेन सर्वोऽपि वृत्तान्तः प्रोक्तः / ततो राजाऽग्निसझं वेतालमारुह्य तत्र गतः / वेतालः प्रच्छन्नो जातः / राजा दासीभिस्तत्र नीतः / तया भक्तिः कृता। तद्रूपदर्शनात् सरागा जाता, 10 परं शयानया प्रतिज्ञा कृता / तथैवोक्तम् / राज्ञा दीपस्थितो वेताल उक्तः- भो प्रदीप ! कामपि कथां कथय / स वक्तुमारेभे कश्चिद् विप्रः / तस्य पुत्री / सा चतुर्णा वराणां दत्ता पृथक्पृथगामे / चत्वारोऽप्यागताः / विवादो जातः / तया महान्तमनर्थ दृष्ट्वा काष्ठभक्षणं कृतम् / 'स्नेहादेकेन वरेणापि चितामध्ये 15 झम्पापितम् / एकोऽस्थीनि गृहीत्वा "गङ्गा'यां गतः / एकस्तत्रोटजं कृत्वा स्थितो भस्मरक्षार्थम् / एको देशान्तरं गतः / भ्रमता च तेन सञ्जीवनी विद्या शिक्षिता / पुनरपि तत्रागतः। अपरेऽप्यागताः / सा जीवापिता / पुनर्विवादो जातः / तर्हि चतुर्णा मध्ये कस्य सा पत्नी ? / राज्ञोक्तम्----अहं न वैच्मि, त्वमेव ब्रूहि / स आह- 20 यश्चिताया सहोत्थितः स भ्राता / योऽस्थिनेता स पुत्रः / येन जीवापिता स पिता, उत्पत्तिहेतुत्वात् / यो भस्मरक्षकः स भर्ता, पालकत्वात् / 1 चत्वारः' इत्यधिको ग-पाठः / 2 ग-तत्र' / 3 'दत्ता' अस्यानन्तरं 'पृथक् पुपर ग्रामे' इति ग-पुस्तके आधिक्यम् / 1 क-घ-'एकेन सह काष्ठ०। 5 ग-. पुस्तके स्नेहादेकेनझम्पापितम्' एतदाधिक्यम् / 6 घ-गङ्गां गतः'। 7 घ-वैग्नि'।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy