SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ चतुधितिप्रबध [17 श्रीविक्रमादिस्य कामसेनागृहं गतः / सा तच्चातुर्येण हृष्टा राज्ञीसमीपं न गच्छति / श्रेष्ठी समागतः / सा राज्ञीसमीपं गता / अनागमनकारणं पृष्टा / शुकचातुर्यकारणं प्रोक्तम् / तया आनायितः शुकः / सा रञ्जिता तेन, यथा राज्ञा पूर्वम् / एकदा 'शुकेन राज्ञीस्नेहपरीक्षार्थ गृहगोधिकादेहे गतम् / राश्या तद्वियोगेन काष्ठभक्षणं कर्तुमारब्धम् / नृपजीवेन शुको जीवापितः / सा राज्ञी व्यावृत्ता / शुकेन सर्वोऽपि वृत्तान्तो राश्य कथितः / राझ्या कुम्भकारस्यावर्जना कृता / तेन कुम्भकारजीवेन तुष्टेन विद्याप्रदर्शनाय मृतबोक्कटदेहे स्वर्जीवः क्षिप्तः / नृपो निजं 10 देहं गतः / अजो भयात् कम्पते / राज्ञा उक्तः—न भेतव्यम् , नाहं त्वत्समो भावी, सकृपोऽस्मि, त्वं सुखं जीव, चर, पिब | ततः कथं तेन समो भविष्यति ? // 3 // चतुर्योक्तम्--- एकदा विक्रमार्केणोत्तमं सौध कारितम् / राजा तत्र गतः विलोकनाय / तत्र चेटकयुग्ममुपविष्टमस्ति / चेटकेनोक्तम्- सुष्ठ सौधमस्ति / चेटिकयोक्तम्-यादृशं स्त्रीराज्ये लीलादेव्या बाह्यगृहमस्ति तादृशमेतत् / राज्ञा तच्छृतम् / तद्गमनौत्सुक्यं जातम् / परं स्थानं तु न वेत्ति / तेन सचिन्तो जातः / भट्टमात्रो नृपाशयं ज्ञात्वा तत्स्थानकज्ञानाय चचाल / तन्मार्गे 'लवण'समुद्रं ततो 'धूली'समुद्रमुत्तीर्य तत्र रात्रौ मदनायतने स्थितः / “निशीथे हयहेषारवसंसूचितं दिव्यालङ्कारभूषितं दिव्यस्त्रीवृन्दमागमत् / तत्स्वामिन्या कामः पूजितः / व्यावृत्तमानानां तासां अश्वपुच्छे लगित्वा 'घ-'चातुर्ये कारणं'। 2 घ-शुकेन भूत्वा राजा स्नेह०' / 3 घ-'गतं तद्वियोगेन' / - बोकडो' इति भाषायाम् / 5 घ-युग्ममस्ति' / 6 घ-सुक्यं, स्थामं तु न बेति, सचिन्तः भट० / 7 रात्रौं / “घ- दिव्यं स्त्री. '।९खसर्वमानाना' /
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy