SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ चतुविशतिप्रबन्थे [17 श्रीविक्रमादित्य [17] // अथ विक्रमादित्यप्रबन्धः // विक्रमादित्यपुत्रं विक्रमसेनराजानं प्रति पुगेधसाऽऽशीर्दत्ता यत् वं पितुर्विक्रमादित्यादधिको भूयाः / तदा देवताधिष्ठिताभिः सिंहासनस्थाभिश्चतसृभिः काष्ठपुत्रिकाभिर्हसितम् / तदा विक्रमसेनेन पृष्टाः पुत्रिका:- किमिति हस्यते ? | ताः प्रोचुः---- तेन सह समत्वमपि न घटते, कुतो नामाधिक्यम् ? / आद्याह--- 'अवन्त्यां' विक्रमो राजा अपूर्वसत्यवार्ताकथकाय दीनारपञ्च शती दत्ते / एवं श्रुत्वा खप्परचौरेण दीनारपञ्चशती याचिता / 10 वार्ता चैका कथिता, यथा गन्धवत्'स्मशानसमीपे पातालविवरकूपे मया दीफे देवीहरसिद्धिप्रेषितः पतन् दृष्टः / मयाऽपि तत्पृष्ठे झम्पापितम् / पाताले तत्र दिव्यं सौधं दृष्टम् / तत्र तैलकटाहिका ज्वलन्ती दृष्टा / तत्पाघे एको नरो दृष्टः पृष्टश्च- किमर्थं त्वमिह ? / तेनोक्तम्१५ अत्र सौधे शापभ्रष्टा दिव्यकन्याऽस्ति / सा ब्रूते- यस्तैलकटाहि कायां झम्पां दाता स मे वर्षशतं पतिर्भविता | अतोऽहमेतत्पतिस्वार्थमत्र तिष्ठामि, परं साहसं नास्ति / इति वार्तया पश्चशती लब्धा / तेन खर्परेण समं राजाऽपि तत्र गतो विवरेण / तैलकटा हिकायां झम्पा दत्ता / कन्यया सोऽमृतेन जीवितः / यावत् सा 20 राजानं वृणुते तावद् राज्ञोक्तम्- अग्रेतनं नरं वरय / वृतः स तया / एवं यः परोपकारी तदधिकोऽयं कथं भावी ? // 1 // द्वितीययोक्तम् 1 ख-घ-'तदा चतसृभिर्वाराङ्गनामिर्हसितं देवताधिष्ठिताभिःसिंहासनत्वमपि न घटते' / 2 ख-घ-कपरकचौरेण' / ग-ध-गन्धवदश्मः ' / 4 घ-'पातालचरं (3) पे।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy