SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ प्रमा प्रवन्धकोशेत्यपराहये प्रेषितश्चान्यदा राज्ञा कामरूपभूपसाधनार्थ गतः / युद्धे घातैर्जर्जरितो विजिल्य तमागमत् स्वस्थानम् / व्याहृताश्च राक्षा वैद्याः / यावद् रोगोऽपि घातव्रणो विकसति तैरुक्तम्-देव ! काकमांसेन शोभनो भवत्ययम् / तस्य च जिनदासश्रावकेण साधू प्रागेव मैत्र्यमासीत् / ततस्तदानयनाय प्रेषितः पुरुषः पुरुषाधिपतिना येन तद्वाक्यात् काकमांस भक्षयतीति / तदाऽऽस्तश्च जिनदासो ऽवन्ती'मागच्छनुभे दिव्ये सुदत्यौ रुदत्यौ अद्राक्षीत् / तेन पृष्टे-किं रुदिथः ? / ताभ्यामुक्तम्-अस्माकं भी 'सौधर्मा च्च्युतः / अतो राजपुत्रं वङ्कचूलं प्रार्थयावहे, परं त्वयि गते स मांस भक्षयिता; ततो गन्ता दुर्गतिम् , तेन रुदिवः / तेनोक्तम्-तथा 10 करिष्ये यया तर भक्षयिता / गतश्च तत्र राज्ञोपरोधाद् वङ्कचूलमवोचत्- गृहाण बलिभुपिशितम् / पटूभूतः सन् प्रायश्चित्तं चरेः। बङ्कचूलोऽवोचत्--- जानासि स्वं यदाचर्याप्यकार्य प्रायश्चित्तं ग्राह्यम् / ततः प्रागेव तदनाचरणं श्रेय इति 'प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्' इति वाक्यानिषिद्धो नृपतिः। विशेषप्रतिपन्नव्रतनि- 15 वहश्चा'ऽच्युत'कल्पमगमत् / वलमानेन जिनदासेन ते देव्यौ तथैव रुदत्या दृष्ट्वा प्रोक्तम्- किमिति रुदियः ? न तावत् स मांस माहितः / ताभ्यां अभिदधे- स ाधिकाराधनावशा'दच्युतं' प्राप्तः / ततो नाभवदस्मद्भतेति / एवं जिनधर्मप्रभावं सुचिरं विभाव्य जिनदासः स्वावासमाससादेति / अस्य 'ढिम्पुरी'तीर्थस्य 20 निर्मापयिता वचूलः / // इति वकचूलप्रबन्धः // 16 // . 1 घ-'रौद्रोऽपि' / 2 काकस्य मांसम् /
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy