SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ प्रबन्ध प्रबन्धकोशेत्यपराये तद्वचः श्रुत्वा लजितोऽसावपृच्छत्- किमतेदिति ? / साऽपि नटवृत्तान्तमचीकथत् --भ्रातरत्र प्रतिभूपतेनटवेषधराश्चरा आगच्छन् / यदि पल्लयां वकचूलोऽस्ति तदाऽस्माकं नृत्यं पश्यतु इत्यब्रुवन् / तदा मयाऽचिन्ति-- साम्प्रतं भ्राता वङ्कचूलो नास्ति गृहे / तदा मया तव वेषधारिण्या नृत्यमकारि तेषां पार्था- 5 त् / दानमदायि तेभ्यः / गताच ते खस्थानम् / ततो बहुनिशागमनेन निद्रापरवशा तेनैव वेषेण भ्रातृजायापार्श्वे अखपम् / इति वृत्तान्तं श्रुत्वाऽतीव मनसि खेदो दधे तेन / कालक्रमेण तस्य तद्राज्यं शासतस्तत्रैव पल्लयां तस्यैवाचार्यस्य शिष्यौ धर्मऋषि-धर्मदत्तनामानौ कदाचिद् वर्षारात्रमवास्थिषाताम्। 10 तत्र तयोरेकः साधुस्त्रिमासक्षपणं विदधे, द्वितीयस्तु चतुर्मासक्षपणम् / वकचूलस्तु तदत्तनियमानामायतिशुभफलतामवलोक्य व्यजिज्ञपत् -~-हे भदन्तौ ! मदनुकम्पया कमपि पेशलं धर्मोपदेशं दैत्तः, ततस्ताभ्यां चैत्यविधापनदेशना पापनाशिनी विदधे / तेनापि 'शराविका पर्वतसमीपवर्तिन्यां तस्यामेव पल्लयां 'चर्मण्वती'सरित्तीरे 15 कारितमुच्चैस्तरं चारु चैत्यम् / स्थापितं च तत्र श्रीमन् महावीरबिम्बम् / तीर्थतया च रूढं तत्। तत्रायान्ति स्म चतुर्दिग्भ्यः सङ्घाः / कालान्तरे कश्चिन्नैगमः सभार्यः सर्वर्या तद्यात्रायै प्रस्थितः प्राप्तः क्रमेण 'रन्ति' नदीम् / नावमारूढी च दम्पती चैत्यशेखरं व्यलोकयताम् / ततः सरभसं सौवर्णकञ्चोलके कुङ्कुमचन्दन- 20 कर्पूरं प्रक्षिप्य जलं क्षेप्तुमारब्धवती नैगमगृहिणी। प्रमादात् निपतितं तदन्तर्जलतलम् / ततोऽभाणि वणिजा-अहो इदं कञ्चोलकं नैककोटिमूल्यरत्नखचितं राज्ञा ग्रहणकेऽर्पितमासीत् / 1 घ-'कथत् कथं भ्रात.' / 2 'ततो बहु' इसारभ्य 'परवशा'पर्यन्तं पाठाधिक्यं ग-पुस्तके वर्तते / 3 ख-घ-'तेन वेषेण' / ख-घ दत्तम् / 5 ख --शिरोनामिदविका()पर्वत.', घ.- 'शिरानामदंविकापर्वतः'। 6 ख-घ-- तत्र यान्ति' / 7 घ--रतिनदीम्।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy