SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रवन्धे 16 श्रीवरचूलेसमयः / अनुशापितो वङ्कचूलः सूरिभिः समणाणं सउणाणं भमरकुलाणं गोकुलाणं च / अनिआओ वसहीओ सारईआणं च मेहाण // 1 // इत्यादि वाक्यैः / ततस्तैः सह चलितो वङ्कचूलः / स्वसामां 5 प्रापुषा तेन विज्ञप्तम्-वयं परकीयसीमां न प्रविशाम इति / सूरिभिर्भणितः-- वयं सीमान्तरमुपेताः तत् किमप्युपदिशामस्तुभ्य, दाक्षिण्यात् / तेनोक्तम्-यन्मयि निर्वहति तदुपदेशेनानुगृह्यतामयं जनः / ततः सूरिभिश्चत्वारो नियमा दत्ताः, तद्यथा अज्ञातफलानि न भोक्तव्यानि 1, सप्ताष्टानि पदान्यपसृत्य घातो 10 देयः 2, पट्टदेवी नाभिगन्तव्या 3, काकमांस न भक्षणीयमिति 4 / प्रतिपन्नास्तेन ते / गुरून् प्रणम्य स्वगृहमगमत् / __अन्यदा गतः सार्थस्योपरि धाट्याम् / शकुनकारणान्न गतः सार्थः / त्रुटितं च तस्य पथ्यदनम् / पीडिताः क्षुधा राजन्याः। दृष्टश्च तैः किम्पाकतरुः फलितः / गृहीतानि फलानि / न जानन्ति ते 15 नामधेयमिति तेन न भुक्तानि / इतरैः सर्वैर्बुभुजिरे / मृताश्च ते किम्पाकफलैः / ततश्चिन्तितं तेन-अहो नियमानां फलम् / / तत एकाक्येवागतः पल्लीम् / रजन्यां प्रविष्टः स्वगृहम् / दृष्ठा पुष्पचूला दीपालोकेन पुरुषवेषा निजपल्या सह प्रसुप्ता। जातश्च कोपस्तयोरुपरि / द्वावप्येतौ खड्गप्रहारेण छिनमि / इति यावद२० चिन्तयत् तावत् स्मृतो नियमः / ततः सप्ताष्ट पदान्यपक्रम्य घातं ददतः खोट्कृतमुपरि खड्गेन / व्याहृतं स्वस्रा-जीवतु वङ्कचूलः। 1 छाया--- श्रमणानां शकुनानां श्रमरकुलानां गोकुलानां च / अनियता वसतयः शारदायानां च मेघानाम् // 2 आर्या / 3 दाक्षिण्यात् ' इति पाठः घ-प्रतो नास्ति / 4 ख-घ-'स्व(स.)स्वगृहमगमन् ' 5 घ-'परिपया(?)शकुन.' / 6 क-ख-पथ्यदिनम्',घ-'एण्यदिनम्। 7 'इति तैः' / 8 घ-‘पदान्यपसृत्य / 1 घ-'खाटरकृत /
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy